Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 544
________________ व्याससम्भत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) ३। अधिकरणद्वयमध्ये यः सम्बन्ध सोऽत्र संगतिशब्देन व्यवह्रियते । (८२-३ पृ.) ४। उद्देश्यतया विधेयतया वा सूत्रस्थप्रथमान्तपदस्यैव अधिकरणारम्भसूचकत्वम् | यथा “जन्माद्यस्य यतः” इति सूत्रे जन्मादिपदम् । ( ८३ पृः ) ५। ऊहनीयप्रथमान्तपदस्यापि अधिकरणारम्भसूचकत्वम् । यथा -- “ शास्त्रयोनित्वात् " इति सूत्रे " तद् ब्रह्म सर्वज्ञम्” इति ऊहनीयप्रथमान्तपदम् । ( ८३ पृः ) ६। यत्र एकाधिकेन सूत्रेण अधिकरण रचित स्यात्, तत्र सर्वाणि कचित् सिद्धान्तबोधकानि, कचित् कतिपयानि तथा शिष्टानि पूर्वपक्षबोधकानि यथा । विलक्षणत्वाधिकरणम् ( ३/२/३ ) ( ८३ ट ) ७। पूर्वपक्षसूत्रम् अधिकरणारम्मे तन्मध्ये वा दृश्यते, मतान्तरज्ञापनार्थ क्वचिदन्ते, यथा ४३५ कार्याधिकरणे पूर्वपक्षेण अधिकरणसमाप्तिः । यत्र पूर्वपक्षानन्तर सिद्धान्तपक्षः तत पूर्वपक्ष मतान्तरज्ञापनार्थम् उक्त, तत्रैव पूर्वपक्षसूत्रे अधिकरणसमाप्ति नान्यत्र । ( ८३ पृ ) ८) कुत्रचित् सूत्रशृङ्खलामध्ये आक्षेपसमाधानरूपेण एकाधिकवारम् पूर्वपक्षसूत्राणि सिद्धान्तसूत्राणि च दृश्यन्ते । यथा ११३१८ देवताधिकरणम् । ( ८४ पृ.) ९। कुत्रचित् एकस्मिन् एव सूत्रमध्ये पक्षद्वयं सन्निवेशितम् । यथा - "गौणश्वेनात्मशब्दात्" इति ११११६ सूत्रम् । ( ८४ पृ: ) १०। एकेन एकाधिकसूत्रेण वा यत्र अधिकरण भवति, तत्र अधिकरणस्य षडङ्गानि अन्तर्निहितानि विज्ञेयानि । ( ८४ पृ: ) ११। अधिकरणागानि षट्, यथा सगति, फलभेद, विषय, सराय, पूर्वपक्ष:, सिद्धान्तपक्ष इति । सूत्रकृता तु एतत्क्रमानुसारेण नैकमपि अधिकरण स्पष्टतया रचितम्, टीकाक्रुद्भिः सर्वत्र एतत् प्रदर्शितम् । ( ८४ पृः ) विशेषनियमाः २५४ १। सूत्रान्तर्गतपदानुसारेण अधिकरणनामकरणं सम्पादनीयम् पुनरुक्तिशंका चेत् प्रतिपाद्यविषयाद्यनुसारेण तत् कर्त्तव्यम् । ( २ भा० २ पृ: ) यथा -- -- “ अथातो ब्रह्मजिज्ञासा " १|१|१ इति सूत्रस्य जिज्ञासा-पदेन अस्य जिज्ञासाधिकरण नाम । “अतएव प्राण" १।१।२३ अत्र प्राणाधिकरणं नाम कृत्वा "प्राणस्तथानुगमात्” १|१|२८ अत्र पुनरुक्तिशंकया प्रतर्दनाधिकरण नाम कृतं प्राणशब्दस्य उभयत्र दृष्टत्वात् । २। अध्यायारम्भे पादारम्भे च अधिकरणारम्भः नियमेन करणीय. । (२ भा० २पृः) यथा--"आवृत्तिरसकृदुपदेशात " ४|१|१ इत्यत्र "सर्वत्र प्रसिद्धोपदेशात् " ११२११ इति अत्र वा अधिकरणम् आरब्धम् । ३। उद्देश्यतया विधेयतया वा निराकाङ्क्षप्रथमान्तपदस्य पुन: प्राप्तिपर्यन्तम् अधि

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555