Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 526
________________ __ २३६ व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः (३यः पादः) अत (१) "अभावं वादरिराह खेवम्" ४।४।१० (५४३) इत्यत्र “वादरिः" इति प्रथमान्त-नाम-पदेन पूर्वपक्षावतारणेन विषयान्तरनिर्देशात् अधिकरणार-मस्य युक्तत्वं, तथैव "एवम्” इति अपरप्रथमान्तपदेन तस्य युक्ततरत्वं कल्पयितुं शक्यते । ४र्थ सामान्यनियमात् ४र्थ विशेषनियमात् २०श विशेषनियमाच्च । श्रीप-व-भाष्ययोः अधिकरणस्य अनारम्भात् दोप। (२) भाव जैमिनिर्विकल्पामननात्" ४।४।११ (५४४) इत्यत्र "जैमिनिः” इति प्रथमान्तनामपदेन विषयान्तरनिर्देश विनापि पूर्वपक्षकरणात् नास्य अधिकरणाम्मकत्वम् । ४र्थ सामान्यनियमात्, २०श विशेषनियमाच । (३ ) "द्वादशाहवदुमयविध वादरायणोऽतः” ४।४।१२ (५४५) इत्यत्र “वादरायणः" हति प्रथमान्तपदसत्वेऽपि “अतः” इति पदेन साकाक्षत्वसिद्धः नास्य अधिकरणारम्भकत्वम्, विषयान्तरस्य अज्ञापनाच १०म विशेषनियमात्, ४र्थ सामान्यनियमात्, ७म विशेषनियमाञ्च । (४) "तन्वभावे सन्ध्यवदुपपत्तेः" ४।४।१३ (५४६) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । ४र्थ सामान्यनियमात्, “सन्ध्यवत्" इत्यस्य प्रथमान्तत्वकल्पनेऽपि साकाक्षत्वम् अनिवार्यम्, अतो न अधिकरणामकल्प युक्तम्, ७म विशेषनियमात् । श्रीप-व-माप्ययो. अधिकरणस्य आरम्भात् दोपः । (५) "भावे जामवत्" ४।४।१४ (५४७) इत्यत्रापि तथैव ४र्थ सामान्यनियमात्, ७म विशेषनियमाच्च । अत: नास्य अधिकरणारम्भकत्वम् । परसूत्रे अधिकरणारम्भदर्शनात् अत्रैव अधिकरणसमाप्तिः । पष्ठ प्रदीपाधिकरणम् । अन"प्रदीपवदावेशस्तथा हि दर्शयति" ४१५ (५४८) इति सूत्रस्य "प्रदीप"-शब्दात् अस्य "प्रदीपाधिकरण” नाम । अत्र श-भा-श्री-भाष्येषु सूत्रद्वयेन एतत् पठम् अधिकरणम् आरब्धम् । वल्लभभाप्ये तु एतत्सूत्रद्वयेन चतुर्थम् अधिकरणम् आरब्धम् । रा-भाप्ये सूत्रसप्तकात्मकतदीपञ्चमाधिकरणस्य ५४ सूत्रम्, निवाकभाप्ये सूत्रसप्तकात्मकतदीयचतुर्थाधिकरणस्य पष्ठ सूत्रम्। माध्वभाप्ये तथैव अटमाधिकरणस्य । श्रीप-भाष्ये सूत्रचतुष्टयात्मकतदीयचतुर्थाधिकरणस्य तृतीय सूत्रम् । तेन रा-नि-म-श्रीप-भाप्येषु अधिकरणं न आरब्धम् । तय मूत्रद्वयम् । “प्रदीपदावेशातथा हि दर्शयति" ४।४।१५ (५४८) । २। "म्बाप्ययसम्पत्योरेन्यतरापेक्षमाविकृतं हि" ४।११६ (५४९ ) अत्र ( १ ) "प्रीपदावेशस्तया हि दर्शयति" ४।४।१५ (५४८) इत्यत्र "आवेश."

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555