________________
__ २३६ व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः (३यः पादः)
अत (१) "अभावं वादरिराह खेवम्" ४।४।१० (५४३) इत्यत्र “वादरिः" इति प्रथमान्त-नाम-पदेन पूर्वपक्षावतारणेन विषयान्तरनिर्देशात् अधिकरणार-मस्य युक्तत्वं, तथैव "एवम्” इति अपरप्रथमान्तपदेन तस्य युक्ततरत्वं कल्पयितुं शक्यते । ४र्थ सामान्यनियमात् ४र्थ विशेषनियमात् २०श विशेषनियमाच्च । श्रीप-व-भाष्ययोः अधिकरणस्य अनारम्भात् दोप।
(२) भाव जैमिनिर्विकल्पामननात्" ४।४।११ (५४४) इत्यत्र "जैमिनिः” इति प्रथमान्तनामपदेन विषयान्तरनिर्देश विनापि पूर्वपक्षकरणात् नास्य अधिकरणाम्मकत्वम् । ४र्थ सामान्यनियमात्, २०श विशेषनियमाच ।
(३ ) "द्वादशाहवदुमयविध वादरायणोऽतः” ४।४।१२ (५४५) इत्यत्र “वादरायणः" हति प्रथमान्तपदसत्वेऽपि “अतः” इति पदेन साकाक्षत्वसिद्धः नास्य अधिकरणारम्भकत्वम्, विषयान्तरस्य अज्ञापनाच १०म विशेषनियमात्, ४र्थ सामान्यनियमात्, ७म विशेषनियमाञ्च ।
(४) "तन्वभावे सन्ध्यवदुपपत्तेः" ४।४।१३ (५४६) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । ४र्थ सामान्यनियमात्, “सन्ध्यवत्" इत्यस्य प्रथमान्तत्वकल्पनेऽपि साकाक्षत्वम् अनिवार्यम्, अतो न अधिकरणामकल्प युक्तम्, ७म विशेषनियमात् । श्रीप-व-माप्ययो. अधिकरणस्य आरम्भात् दोपः ।
(५) "भावे जामवत्" ४।४।१४ (५४७) इत्यत्रापि तथैव ४र्थ सामान्यनियमात्, ७म विशेषनियमाच्च । अत: नास्य अधिकरणारम्भकत्वम् । परसूत्रे अधिकरणारम्भदर्शनात् अत्रैव अधिकरणसमाप्तिः ।
पष्ठ प्रदीपाधिकरणम् । अन"प्रदीपवदावेशस्तथा हि दर्शयति" ४१५ (५४८) इति सूत्रस्य "प्रदीप"-शब्दात् अस्य "प्रदीपाधिकरण” नाम । अत्र श-भा-श्री-भाष्येषु सूत्रद्वयेन एतत् पठम् अधिकरणम् आरब्धम् । वल्लभभाप्ये तु एतत्सूत्रद्वयेन चतुर्थम् अधिकरणम् आरब्धम् । रा-भाप्ये सूत्रसप्तकात्मकतदीपञ्चमाधिकरणस्य ५४ सूत्रम्, निवाकभाप्ये सूत्रसप्तकात्मकतदीयचतुर्थाधिकरणस्य पष्ठ सूत्रम्। माध्वभाप्ये तथैव अटमाधिकरणस्य । श्रीप-भाष्ये सूत्रचतुष्टयात्मकतदीयचतुर्थाधिकरणस्य तृतीय सूत्रम् । तेन रा-नि-म-श्रीप-भाप्येषु अधिकरणं न आरब्धम् । तय मूत्रद्वयम्
। “प्रदीपदावेशातथा हि दर्शयति" ४।४।१५ (५४८) । २। "म्बाप्ययसम्पत्योरेन्यतरापेक्षमाविकृतं हि" ४।११६ (५४९ )
अत्र ( १ ) "प्रीपदावेशस्तया हि दर्शयति" ४।४।१५ (५४८) इत्यत्र "आवेश."