Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 532
________________ २४२ व्याससम्मत-ब्रस्मसूत्रभाष्यनिर्णयः ( ३यः पाद:) निम्बार्कभाष्ये अचिरादिमाग परब्रमप्राप्तानाम् आविविवर्णनम् । माध्वभाष्ये परब्रमप्राप्तानां भोगनिरूपणम् । श्रीकण्ठमाण्ये- युक्तिस्वरूपनिरूपणम् । श्रीकरभाष्ये--मुमुक्षूणा मुक्तिस्वरूपप्रकार विचिन्त्य स्वाभाविकजीवभावनिवृत्तिपूर्वकशिव ___प्रातिरूप परमपुरुषार्थफलनिरूपणम् । अत्रापि यो भेदः दृश्यते स च प्रायेण नाममात्रेणैव, तन्मूलं च अद्वैतविशिष्टाद्वैतादि मतवादभेदः । इदानीं एतचतुर्थाध्यायस्य उपसंहार. चिन्तनीय : एवं च एतदध्यायस्य चतुर्यु पादेषु यद् आलोचितं तत् सर्वम् इदानी संग्रहेण चिन्तनीयम् । विज्ञाते च जिज्ञासितविषये यथा तलाभाय इच्छा स्वाभाविकी, साधने च समक्धारित तत्फलजिज्ञासापि तथैव स्वाभाविकी । अतः जीवजगद्ब्रह्मज्ञानतत्साधननिरूपणानन्तरं तत्साधनफलम् अत्र चतुर्थे अध्याये अभिहितम् । अनुसृत: अतः नैसर्गिक पन्थाः सूत्रकृतिः भगवद्धि । तत्र अस्य प्रथमे पादे श्रवणाचावृत्त्या निर्गुणम् उपासनया सगुणं वा ब्रह्म साक्षातकृतवत: जीवतः पुण्यपापलेपविनाशलक्षणाया मुक्त: अभिधानम् , द्वितीये च पादे नियमाणस्य उत्क्रान्तिप्रकारप्रदर्शनम्, तृतीये च पादे सगुणब्रमविदः मृतस्य उत्तरमार्गाभिगमनवर्णनम् , तथा अन्तिमे पादे पूर्वभागे निर्गुणब्रमविदो विदेहकैवल्यप्राप्तिकथनम् , उत्तरमागे च सगुणब्रह्मविदो ब्रह्मलोकस्थिते. निरूपणम् । तथापि यथा तृतीयाध्यायारम्भे साधनफलभूतपरलोकगमनप्रकारवर्णन दृश्यते, एतचतुर्थाध्यायस्य प्रारम्भेऽपि तथा श्रवणाधावृत्तिलक्षणं साधनमपि पर्णितं दृश्यते । एतद्धि आपातहण्या अध्यायसंगतिलऽ धनेन मन्तव्यम् । तथापि यथा तृतीयाध्यायस्य परलोकगमनागमनादिप्रकारवर्णनं नित्यानित्यवस्तुविवेकवैराग्यसपनामज्ञानसाधनचतुष्टयान्तर्गत-प्रथमसाधनद्वयसूचकत्वेन गृह्यते, तथा अत्रापि चतुर्थाध्याये यत् श्रवणाधावृत्तिकर्तव्यतादिरूपसाधनवर्णनं, तदपि चतुर्थाध्यायप्रतिपाचफलनिरूपणस्य अगत्वेन विवेचनीयम् । तेन च विवेचनप्रकारेण इत्थमेव भवितव्यम्, श्रवणमनननिदिध्यासनरूपं यत् साधनं तत् कर्मोपासनादिरूपबहिर#साधनाना, तथा नित्यानित्यवस्तुविवेकशमदमादिषट्सम्पत्तिमुमुक्षुत्वरूपसाधनचतुष्टयस्य फलरूपमेव भवति । एवं च श्रवणाद्यावृत्तः अपि फलपत्वं सिध्यति । अत. नात्र अध्यायसंगतिलजधनं शंकनीयम् । ततश्च अत्र सगुणनि गभेदेन यत् निरूपणं पादविभागत कृतं, तत् शंकरभाष्यानुसारेणेति योद्धव्यम्, भगवा करामानुजादीना मतेन ब्रह्मणः यः निर्गुणत्वोपदेशः श्रुतिषु दृश्यते सोऽपि सगुणपरत्वेन व्यारल्यायते । एतार्थम् अत्रापि “अविभागो वचनात्” ४।२।१६ तथा "अविभागेन दृष्टत्वात् ४।४।४ इति सूत्रद्वयमेव पुल निदर्शनम् । अत्र या व्याख्या भगवद्

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555