Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 508
________________ २१८ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) जन्यः अन्यः दोप. जातः । न तथा शंकरपक्षे । न वा “इति चेत" इति-पघटितसूत्रस्य पूर्वपक्षसिद्धान्तपक्षात्मकत्वेन समग्रस्य न पूर्वपक्षत्वं युक्तं, किन्तु सिद्धान्तपक्षत्वमेव सगतम् । परन्तु शंकरभाष्ये "प्रतिषेधादिति चेन्न शारीरात्" (४।२।१२) इति समयसूत्रं पूर्वपक्षत्वेन व्याख्यातम् , अतः असंगतम् इति वाच्यम् ? तन्न “अन्यथात्व शब्दादिति चेन्नाविशेषात्" ३।३।६ सूत्रस्य अधिकसमित्या पूर्वपक्षत्यमेव दृश्यते । ततश्च तत्सूत्रार्थेऽपि शकर रामानुजमतयोः मध्ये महान् प्रभेदो दृश्यते । शंकरमतेन सद्योमुक्ति: रीक्रियते, रामानुजमतेन तु तत् न अंगीक्रियते । सधोमुक्तिप्रविलापनं तु श्रुतिविरुद्धम् । “न तस्य प्राणा उकामन्ति प्रस्लेव सन् ब्रमाप्येति" (बृ ४१४६) "न तस्य प्राणाः उकामन्ति अत्रैव समवलीयन्ते ब्रमेव सन् ब्रह्माप्येति" (नृ ता ५/८) इत्यादिश्रुतिभ्यः अतिस्पटतया ज्ञानिन प्राणोत्क्रमणं प्रतिसिद्धमेव । नृसिहतापनीये तु तस्य "इहैव"-पदेन अस्मिन् एव शरीरे अवस्थिते सति प्राणोत्क्रमणनिषध तथा ब्रमणि विलय. इति उभयमेव उक्तम् । अतः सद्योमुक्ति ज्ञानिनः अनगीकर्तुं न शक्यते । ततश्च सूत्राक्षरतः यज् ज्ञायते, तेन प्राणोत्क्रमणं शरीरात् इति निषिध्य शारीराज्जीवादेव भवति इत्येव प्रस्तूयते इति व्यासाभिप्रायत्येन यत कलपन तदपि न सगतम् । यत. उत्क्रान्तिकथा, मृत्युकालमेव विषयीकरोति, मृत्युश्च शरीरात् प्राणनिर्गमनम् इत्येव प्रसिद्धम्, न तु शारीरात् जीवात् इति कचित् । यदि शारीरात् जीवात् प्राणोत्क्रमणं कदाचिदपि भवेत् , तदा सदैव जीव शरीरे तितु, तस्य प्राणा एवं केवल उस्कमेत् देहा बहिर्गच्छेत् इत्येव सिद्धत् । तदेव शारीरात् प्राणोत्क्रमणस्य निषेधोऽपि कथञ्चित् संगच्छेत । न तु जोवः सदैव शरीरे तिष्ठति । स्थूलशरीरस्य अनित्यत्वात् , अत एतादृशकल्पन नितराम् अस्वाभाविकम् बहुश्रुतिविरुद्धं च । अतः शारीरीत् जीवात् प्राणोत्क्रमणकल्पन न संगतम् । अत. तादृशासगतकल्पनमेव अत्र सूत्रकारः पूर्वपक्षत्वेन गृहीत, खण्डित च परसूत्रे इत्येव समीचीन मतम् । अथ यदि कल्प्येत, प्राणोत्क्रमणनिषेधस्य तात्पर्य प्राणादिभिः सह जीवाना ब्रह्मप्राप्त्यर्थत्वम् । न तु अत्रैव प्राणस्य लया जीवस्य ब्रह्मत्वप्राप्तौ इति, तदापि न संगतं कल्पन भवति। न वा ब्रह्मलोकादिमिनरूप. जीवस्य उत्क्रान्तिपक्षः तेन प्रतिष्ठापितो भवति। "ब्रह्मैव सन् ब्रह्माप्येति" (८१८१६) इति वचनात् । अत्र “प्रमेव सन्” इति पदात् जीवनह्मणोः प्राप्यापकत्वरूपसम्बन्धस्य निषेधः उच्यते । “ब्रह्म वेद प्रमेव भवति" (मु ३।२।१ ) इति श्रुतेश्च । अतः एवमपि ब्रह्मज्ञस्य ब्रह्मलोकगमनरूपोमान्ति साधयितुं न शक्यते । नीव मूत्वा ब्रह्मप्राप्तौ गमनस्य असम्भवात् । एव-कारेण ब्रह्माभिन्नत्वमेव उद्घोष्यते, भेदलेशोऽपि निवाथ्यते । भिन्नयोरेव प्राप्यापकसम्बन्धः ग्रामप्राप्तौ इस सम्भपति । जलान्तर्गतजलस्य न जलप्राप्तिः, पटाकाशस्य न आकाराप्राप्तिः कचिद् भवति। अतः अत्र लोकान्तरगमनरूपायाः उत्क्रान्तः विधानं ज्ञानिन: असंगतमेव। नृसिंहतापनीय उत्क्रान्तिनिषधानन्तरं प्राणानां प्रविलयः एव उक्त:, "इहैव समवलीयन्ते” इत्यनेन । अतः ब्रह्मविदः प्राणाना जीवेन सह

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555