Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 506
________________ २१६ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: ( ३यः पादः ) नियमात्, १२श विशेषनियमाच्च । परसूत्रे मतत्रयानुसारेण अधिकरणारम्भात् अत्र अधिकरणसमाप्तिरपि कल्पयितुं शक्यते । पञ्चमं संसारव्यपदेशाधिकरणम् अत्र “तदापीतेः संसारव्यपदेशात् ४ २२८ (५०४ ) इति सूत्रस्य 'ससारख्यपदेशात् ' इति पदात् अस्य " संसारव्यपदेशाधिकरण" नाम । तत्र अनेन सूत्रेण श-मा-श्री- भाष्येषु अधिकरणम् आरब्धं, शिष्टेषु तु न । तत्रापि श -भा-भाष्ययोः चत्वारि सूत्राणि गृहीतानि, श्रीकण्ठमाप्ये तु षट् सूत्राणि । पुनः श-भा - रा - श्री श्रीप - भाष्येषु एतद्धि पञ्चमम् अधिकरणं, निम्बार्क - भाष्ये द्वितीयाधिकरणं, माध्वभाष्ये षष्ठाधिकरण, तथा वल्लमभाष्ये तृतीयाधिकरणम् । रामानुजश्रीपतिमाप्ययोः एतत् सूत्र सूत्रसप्तकात्मकतदीयपञ्चमाधिकरणस्य द्वितीयम् सूत्र, निम्बार्कमाज्ये सूत्रसप्तकात्मकतदीयद्वितीयाधिकरणस्य द्वितीयं सूत्रम्, माध्यमाज्ये सूत्राष्टकात्मक-तदीयषष्ठाधिकरणस्य द्वितीय सूत्र, श्रीकण्ठभाष्ये सूत्रपट्कात्मकतदीयपञ्चमाधिकरणस्य प्रथम सूत्र, वल्लभभाष्ये तदीयतृतीयाधिकरणस्य नवसु सूत्रेषु द्वितीयं सूत्रम् । तच्च सूत्रचतुष्टयम् १। 'तदापीते संसारव्यपदेशात् ' ४|२|८ (५०४ ) २। 'सूक्ष्म प्रमाणतश्च तथोपलब्धे' ४/२/९ (५०५ ) ३ | 'नोपमर्देनात' ४|२|१० (५०६ ) ४। 'अस्यैव चोपपत्तेरेष ऊष्मा ४/२/११ (५०७ ) अत्र ( १ ) 'तदापीते. संसारख्यपदेशात् ' ४।२।८ (५०४ ) इत्यत्र 'तत्' इति प्रथमान्तपदात् अस्य अधिकरणारम्भ कन्वं सगतम्, ४र्थ सामान्यनियमात् । 'तत् आ अपीते' इति पदच्छेदात् । विषयश्रुतिमेदात् तत्-शब्दस्य पूर्वप्रकृतापेक्षत्व न वाधकम् । ४र्थ सामान्यनियमात् । रा-म-नि-श्रीप-व-भाष्येषु अधिकरणस्य अरचनाया दोष. | ( २ ) 'सूक्ष्मं प्रमाणतश्च तथोपलब्धे' ४/२/९ (५०५ ) इत्यत्र 'सूक्ष्मम्' इति प्रथमान्तपदसत्त्वेऽपि च-कारात् नास्य अधिकरणारम्भकत्वम् । अत्र ऐकमत्यं सर्वेषाम् । ४र्थं सामान्यनियमात्, ६ष्ठ विशेषनियमाच्च । ( ३ ) 'नोपमर्देनात. ' ४।२।१० (५०६ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणा रम्मकत्वम् । ४र्थ सामान्यनियमात् । 'अत' पदादपि बाघ, ७म विशेषनियमात् । ( ४ ) 'अस्यैव चोपपत्तेरेष ऊष्मा ४/२/११ (५०७ ) इत्यत्र 'ऊष्मा' इति प्रथमान्तपदसत्त्वेसपि 'अस्य'-पदात् तथा 'च' पदाच्च अस्य साकाक्षत्वात् न अधिकरणारम्भकत्वम् । ४र्थं सामान्यनियमात् च-काराच वाघ. ६ष्ठ विशेषनियमात् । 3 परसूत्रे अधिकसम्मत्त्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः संगच्छते ।

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555