Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
View full book text ________________
२२० व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) नियमात् । ततशब्दस्य पूर्वप्रकृतापेक्षत्वं तु न अत्र वाधकम् , तथापि हि-शब्देन विवेयभेदात् १२श विशेषनियमात् अधिकरणारम्भः संगतः। पलभभाष्येअधिकरणस्य अनारम्भात् दोपो वाच्यः । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः ।
अष्टमम् अविभागाधिकरणम् । अत्र "अविभागो वचनात्" ४।२।१६ (५१२) इति सूत्रस्य "अविभागः” इति पदात् अस्य "अविभागाधिरकण" नाम । अत्र निम्बार्क-श्रीकण्टभाप्यद्वयभिन्नेषु सर्वेषु भाप्येषु अनेन एकेन सूत्रेण अधिकरणं रचितम् । तत्र श-भा-म-भाष्येपु एतत् सूत्रं तदीयाटमाधिकरणस्य एकमेव सूत्रम् , रामानुज-श्रीपतिभाष्ययोः तथैव तदीयसप्तमाधिकरणस्य । पलभस्य तु पुनः तदीयचतुर्थाधिकरणस्य । निम्बार्कभाष्ये एतत् सूत्रं तदीयसूत्रद्वयात्मकतृतीयाधिकरणस्य द्वितीय सूत्रम् , श्रीकण्ठमाण्ये तु सूत्रद्वयात्मकतदीय५४ाधिकरणस्य द्वितीय सूत्रम् । तेन नि-श्री-भाष्ययोः अधिकरणस्य अरचनात् दोष ।।
___ अत्र "अविभागः" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्वं युक्तमेव । ४र्थ सामान्यनियमात् । परसूत्रे सर्वसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमातिरिति ।
नवमं तदोकोधिकरणम् । अत्र “तदोकोप्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थात् तच्छेपगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया" ४।२।१७ (५१३) इति सूत्रस्य “तदोकान” इति पदात् अस्य "तदोकोधिकरण" नाम । अत्र सर्व अधिकरणम् आरब्धम् । तत्र श-भा-रा-श्री-श्रीप व-भाष्येषु अत्र एतदेव एक सूत्र गृहीतम् । निम्बाकभाष्ये सूत्रद्वयं, मध्वभाष्ये च सूत्रपञ्चकम् इति विशेषः । श-भा-म-भाव्येषु नवमाधिकरणम् , रा-श्रीप-भाण्ययोः अष्टमाधिकरणम् , निम्बार्कभाष्ये चतुर्थाधिकरणं, माध्वभाष्ये नवमाधिकरण, श्रीकण्ठभाष्ये सप्तमाधिकरणं, वल्लभभाण्ये पञ्चमाधिकरणम् इति प्रभेदः।
अत्र “तदोकोग्रज्वलनम्" इति प्रथमान्तपदात् अस्य अधिकरणामकत्वं संगतमेव, ४र्थ सामान्यनियमात् । च-कारस्य न वाधकरवं विधेयभेदस्य ज्ञापनात् १२श विशेषनियमात् परसूत्रे अधिकसम्मत्या अधिकरणारमात् अत्रैव अधिकरणसमाप्तिश्च । .
दशमं रश्म्यधिकरणम् ।। अत्र "रम्यनुसारी” ४।२।१८ (५१४) इति सूत्रस्य "रश्मि” इति पदात् अस्य "रत्यधिकरण” नाम । अत्र श-भा-रा-श्रीप-श्री-व-भाष्येषु अधिकरणं रचितम् , नि-म-भाष्ययोः तु न रचितम् । श-भा-श्री-भाष्येषु सूत्रद्वयं गृहीतम् , रा-श्रीप-व-भाध्येधु तु एतदेव एक सूत्रं गृहीतम् । श-भा-भाष्ययोः दशमाधिकरणं, रामानुज-श्रीपतिभाप्ययो. नवमाधिकरणं, निम्बार्कभाष्ये तु सूत्रद्वयात्मकतदीयचतुर्थाधिकरणस्य द्वितीय सूत्रम् , माध्वभाष्ये तथैव सूत्रपश्चात्मकतदीय
Loading... Page Navigation 1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555