Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 494
________________ २०४ व्याससम्मत-ब्रह्म सूत्रभाष्यनिर्णयः ( ३यः पादः) एवं च अधिकरणरचनानियमानुसारेण विभिन्नभाष्याणा पालोचने कृते शङ्करभाष्यस्यैव निर्दोषत्वात् व्यासमतसनिकृष्टत्वम् उपलभ्यते । अत्र इदं वोध्यम् । ब्रह्मज्ञानसाधनत्वेन कर्मोपासना चैतत् उभयमपि अत्र उक्तम्, तयोः कर्मोपासनयोः ज्ञानेन सह स्वरूपसमुच्चयः उत क्रमसमुच्चयः इति नात्र स्पष्टम् उक्त च । अत. मतभेदवीजम् अत्र अस्त्येव इति विज्ञेयम् । तथैव यस्य श्रवणमननादि-साधनं ब्रह्मज्ञानाय, तद्ब्रह्म किं सगुणं निर्गुण वेति, तदपि अत्र विवादास्पदोभूतम् एव दृश्यते। तेन विभिन्नभाण्येषु अत्र मतभेदो दृश्यते एव । साधनार्थम् उपदिष्टं तत्त्वं, न तत्त्वनिर्णयाय उपदिष्टेन तत्त्वेन सह समवलमिति अपि अत्र चिन्तनीयम् । एतदर्थ ३।२।५-७ अधिकरणानि द्रष्टव्यानि । अत्र विभिन्नभाण्याणि न ऐकमत्य भजन्ते । तथापि यदि शास्त्रसंगतिरत्र चिन्त्यते तदा मीमासा न सुदूरपराहता । निर्गुणब्रह्मज्ञानं एतच्छास्त्रस्य प्रतिपाद्यम् इति प्रागेव दृष्टम्, तेन तेषु अधिकरणेषु ब्रह्मणः निर्गुणत्वप्रतिषेध, तथा सगुणत्वव्यवस्थापन शास्त्रसगतेः नानुकूलम् इत्येव कल्पनीयम् । इति चिद्धनानन्द पुरी विरचिते व्याससम्मतासूत्रभाष्यनिर्णये तृतीयाध्याय.। अथ फलनामचतुर्थाध्यायस्य प्रथमे पादे प्रथमम् श्रावृत्त्यधिकरणम् ।। अत्र "आवृत्तिसकदुपदेशात्” ४।१।१ (४७८) इति सूत्रस्य "आवृत्ति'-पदात् अस्थ "आवृत्त्यधिकरण” नाम । तत्र सवैरेव भाष्यकारै. अत्र सूत्रद्वयं गृहीतम् । तच्च सूत्रद्वयम् १ । आवृत्तिरसदुपदेशात् १।१।१ ( ४७८ ) २ । लिंगाच ४।१।२ ( ४७९) अत्र ( १ ) "आवृत्तिरसकृदुपदेशात्” ४।१।१ (४७८ ) इत्यत्र “आवृत्ति."-इति प्रथमान्तपदात् तथा अत्र अध्यायस्य आरम्भात् अस्य अधिकरणारम्भकत्वं युक्तमेव। ४र्थ सामान्यनियमात् , तथा २य विशेषनियमात् । (२) "लिगाच” ४।१।२ (४७९ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिफरणारम्भकल्पम्, च-कारस्य हेतुपोषकत्वाच । ४र्थ सामान्यनियमात् तथा ६ष्ठ विशेपनियमात । परसूत्रे सर्वसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्तिश्च सगच्छते । द्वितीयम् आत्मत्वोपासनाधिकरणम् । अत्र "आत्मनि तृपगच्छन्ति ग्राहयन्ति च" ४।१।२ (४८० ) इत्यत्र "आत्मा"

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555