________________
२०४ व्याससम्मत-ब्रह्म सूत्रभाष्यनिर्णयः ( ३यः पादः)
एवं च अधिकरणरचनानियमानुसारेण विभिन्नभाष्याणा पालोचने कृते शङ्करभाष्यस्यैव निर्दोषत्वात् व्यासमतसनिकृष्टत्वम् उपलभ्यते ।
अत्र इदं वोध्यम् । ब्रह्मज्ञानसाधनत्वेन कर्मोपासना चैतत् उभयमपि अत्र उक्तम्, तयोः कर्मोपासनयोः ज्ञानेन सह स्वरूपसमुच्चयः उत क्रमसमुच्चयः इति नात्र स्पष्टम् उक्त च । अत. मतभेदवीजम् अत्र अस्त्येव इति विज्ञेयम् । तथैव यस्य श्रवणमननादि-साधनं ब्रह्मज्ञानाय, तद्ब्रह्म किं सगुणं निर्गुण वेति, तदपि अत्र विवादास्पदोभूतम् एव दृश्यते। तेन विभिन्नभाण्येषु अत्र मतभेदो दृश्यते एव । साधनार्थम् उपदिष्टं तत्त्वं, न तत्त्वनिर्णयाय उपदिष्टेन तत्त्वेन सह समवलमिति अपि अत्र चिन्तनीयम् । एतदर्थ ३।२।५-७ अधिकरणानि द्रष्टव्यानि । अत्र विभिन्नभाण्याणि न ऐकमत्य भजन्ते । तथापि यदि शास्त्रसंगतिरत्र चिन्त्यते तदा मीमासा न सुदूरपराहता । निर्गुणब्रह्मज्ञानं एतच्छास्त्रस्य प्रतिपाद्यम् इति प्रागेव दृष्टम्, तेन तेषु अधिकरणेषु ब्रह्मणः निर्गुणत्वप्रतिषेध, तथा सगुणत्वव्यवस्थापन शास्त्रसगतेः नानुकूलम् इत्येव कल्पनीयम् । इति चिद्धनानन्द पुरी विरचिते व्याससम्मतासूत्रभाष्यनिर्णये
तृतीयाध्याय.।
अथ फलनामचतुर्थाध्यायस्य प्रथमे पादे
प्रथमम् श्रावृत्त्यधिकरणम् ।। अत्र "आवृत्तिसकदुपदेशात्” ४।१।१ (४७८) इति सूत्रस्य "आवृत्ति'-पदात् अस्थ "आवृत्त्यधिकरण” नाम । तत्र सवैरेव भाष्यकारै. अत्र सूत्रद्वयं गृहीतम् । तच्च सूत्रद्वयम्
१ । आवृत्तिरसदुपदेशात् १।१।१ ( ४७८ ) २ । लिंगाच
४।१।२ ( ४७९) अत्र ( १ ) "आवृत्तिरसकृदुपदेशात्” ४।१।१ (४७८ ) इत्यत्र “आवृत्ति."-इति प्रथमान्तपदात् तथा अत्र अध्यायस्य आरम्भात् अस्य अधिकरणारम्भकत्वं युक्तमेव। ४र्थ सामान्यनियमात् , तथा २य विशेषनियमात् ।
(२) "लिगाच” ४।१।२ (४७९ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिफरणारम्भकल्पम्, च-कारस्य हेतुपोषकत्वाच । ४र्थ सामान्यनियमात् तथा ६ष्ठ विशेपनियमात । परसूत्रे सर्वसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्तिश्च सगच्छते ।
द्वितीयम् आत्मत्वोपासनाधिकरणम् । अत्र "आत्मनि तृपगच्छन्ति ग्राहयन्ति च" ४।१।२ (४८० ) इत्यत्र "आत्मा"