Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
बन्धशतक
विशिष्यते । सत्यमस्ति, तथाहि - कर्मयोग्यायोग्यमपि द्रव्यविभागदर्शनार्थमेव सजातीयपरमाण्वादिद्रव्यसमुदायरूपा वर्गणाः प्ररूप्यन्तेप्रकरणम् इह समस्तलोकाकाशप्रदेशेषु ये केचनैकाकिनः परमाणवो विद्यन्ते तत्समुदायः सजातीयत्वादेका वर्गणा, इयं च स्वाभावाज्जीवानां ग्रहे नागच्छतीति अग्रहणवर्गणेत्युच्यते । एवं द्विप्रादेशिकस्कन्धवर्गणाप्यग्रहणवर्गणा । एवं त्रिचतुष्पञ्चादिप्रादेशिकस्कन्धानामपि वर्गणा वाच्याः, यावत्सङ्ख्यातप्रादेशिकस्कन्धानामपि वर्गणा अग्रहणवर्गणाः, एवमसङ्ख्यातप्रादेशिकस्कन्धानामपीति । अनन्तानन्तप्रादेशिकस्कन्धवर्गणा अप्यनन्ता अतिक्रम्यात्रान्तरेऽनन्तानन्तैरेव परमाणुभिर्निष्पन्नानामेकोत्तरवृद्धिभाजां स्कन्धानां समुदायरूपा अनन्ता औदारिकशरीरनिष्पत्तिहेतुभूता औदारिकवर्गणा भवन्ति । तदनन्तरं द्रव्यमाश्रित्य वृद्धानां परिणामं त्वाश्रित्य सूक्ष्माणामेकोत्तरवृद्धिभाजां स्कन्धानां समुदायरूपा वैकियशरीरनिष्पत्तिहेतुभूता अनन्ता वैक्रियवर्गणा भवन्ति । तदनन्तरं द्रव्यतो वृद्धानां परिणामं त्वाश्रित्य सूक्ष्मतराणामेकोत्तरवृद्धिमतामेव स्कन्धानां समुदायरूपा आहारकशरीरनिष्पत्तिहेतुभूता अनन्ता आहारकवर्गणा । अत्र च जघन्यवर्गणारम्भकस्कन्धस्यानन्तभागे यावन्तोऽणवस्तत्प्रमाणेन विशेषेणोत्कृष्टवर्गणारम्भक एकैकस्कन्धोऽधिको मन्तव्यः, एवमौदारिकवैक्रियवर्गणास्वपि जघन्यवर्गणारम्भकस्कन्धेभ्य उत्कृष्टवर्गणारम्भकस्कन्धानां विशेषाधिकत्वं वाच्यमिति । तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या अग्रहणवर्गणा, अतीतवक्ष्यमाणाहारकतैजसयोरयोग्यतेति कृत्वा । एवमेता अपि यथोत्तरं एकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता अग्रहणवर्गणा भवन्ति । एवं जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणा स्कन्धा अन्तगुणपरमाण्वारब्धा द्रष्टव्याः । स च गुणकारः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणो द्रष्टव्यः । वर्गणा अप्येता एतद्गुणकारवृद्धपरमाणुराशिसङ्ख्योपेता
गा.-८८८९
२६५

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376