Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
गा.-१०३
बन्धशतक-A प्रकरणम्
१०४
स्थितिविशेषेभ्यस्तान्यसङ्ख्येयगुणानि, यतः सर्वजघन्योऽपि स्थितिविशेषोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणैरध्यवसायस्थानैर्जन्यते, - | | उत्तरे तु स्थितिविशेषास्तैरेव यथोत्तरविशेषवृद्धैर्जन्यन्तेऽतस्तेभ्यस्तान्यसङ्ख्यातगुणानि सिद्धानि ॥१०२॥ ___ 'तेसिमसंखेजे'त्यादि इह 'अनुभागे' इत्यत्र एकारोऽलाक्षणिको ‘बंधठाणाणीत्यत्रापि अध्यवसायशब्दो लुप्तो दृष्टव्यो, 'हुंती'त्यस्यापि व्यवहितसम्बन्धः । ततश्चानु पश्चात् बन्धोत्तरकालम्, भज्यते सेव्यतेऽनूभूयत इत्यनुभागो रसस्तस्य बन्धोऽनुभागबन्धः, अध्यवसायस्थानानीति पूर्ववत् । अनुभागबन्धस्य कारणभूतान्यध्यवसायस्थानान्यनुभागबन्धाध्यवसायस्थानानि । स्थितिबन्धाध्यवसायस्थानेभ्यस्तान्यसङ्ख्येयगुणानि भवन्ति । स्थितिबन्धाध्यवसायस्थानं ह्येकैकमन्तर्मुहूर्तमुक्तम् । अनुभागबन्धाध्यवसायस्थानं त्वेकैकं जघन्यत:सामयिकमुत्कृष्टतस्त्वष्टसामयिकान्तमेवोक्तम्, अत एकस्मिन्नपि नगरकल्पे स्थिति| बन्धाध्यवसायस्थाने तदन्तर्गतानि नगरान्तर्गतोच्चैर्नीचैर्गृहकल्पानि नानाजीवान् कालभेदेनैकजीवं वा समाश्रित्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागबन्धाध्यवसायस्थानानि भवन्ति । तथाहि-जघन्यस्थितिजनकानामपि स्थितिबन्धाध्यवसायस्थानानां मध्ये यदाद्यं सर्वलघुस्थितिबन्धाध्यवसायस्थानं तस्मिन्नपि देशक्षेत्रकालभावजीवभेदानामसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धाध्यवसायस्थानानि प्राप्यन्ते, द्वितीयादिषु तान्यप्यधिकान्यधिकतराणि प्राप्यन्ते इति सर्वेष्वपि स्थितिबन्धाध्यवसायस्थानेषु । तेषु भावना कार्या । अतस्तेभ्यस्तान्यसङ्ख्येयगुणानीति स्थितम् ‘एत्तो अणंतगुणिआ' इत्यादि । एतेभ्योऽनुभागबन्धाध्यवसायस्थानेभ्यः कर्मस्कन्धा अनन्तगुणा मुणितव्याः, यत एते सिद्धानन्तभागेऽभव्येभ्योऽनन्तगुणाः प्रतिसमयं गृह्यन्त
३२७

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376