Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 351
________________ बन्धशतक प्रकरणम् भेया तेसि समासो संखेवो अह इमस्स गंथस्स । सोयाराणं सुयणंमि जं फलं तं निसामेह ॥११०९॥ प्रस्तुतग्रन्थाध्ययने श्रोतृजनस्य यत्फलं तद्दर्शयितुमाह इयकम्मपयडिपगयं संखेवुद्दिट्ठनिच्छियमहत्थं । जो उवजुंजइ बहुसो सो नाही बंधमोक्खत्थं ॥ १०७॥ इति पूर्वोक्तं कर्मप्रकृतिश्रुतप्रगतं कर्मप्रकृतिश्रुतान्तर्गतं शतकमिति शेषः । कथम्भूतमित्याह - 'सङ्क्षेपोद्दिष्टम्' सङ्क्षेपकथितम् । पुनः कथम्भूतमित्याह निश्चितः प्रमाव्यभिचारी महानपरिमितोऽर्थो यत्र तं निश्चितमहार्थम् । अनेन हि परिज्ञातेन दृष्टिवादाद्यन्तर्गतः सर्वोऽपि कर्मविचारो एतदनुसारतो ज्ञायन्त इत्यस्य सङ्क्षेपोद्दिष्टस्यापि महार्थता । एवम्भूतं चामुं यो बहुश: 'उपयोक्ष्यते' अध्ययनगुणन श्रवणचिन्तनधारणव्याख्यानादिसारेण पुनः पुनरूपयोगं नेष्यति स बन्धस्य पूर्वोक्तस्वरूपस्य मोक्षस्य च कर्माष्टकप्रध्वंसलक्षणस्यार्थं ज्ञास्यति । ज्ञात्वा च विशुद्धमानान्त: करणो बन्धस्य सर्वदुः खरूपत्वात् कारणानां परित्यागे, मोक्षस्य च सर्वोत्तमसुखरूपत्वात् तत्कारणानामुपादाने यत्नं करिष्यति । तं च कृत्वा प्रज्वलितप्रकृष्टावबोधप्रदीपविघटितमोहान्धकारनिकरः समुच्छलितालब्धपूर्वदुर्वारवीर्यप्रसरः शुक्लध्यानकुठारधारसम्पातसञ्चूर्णितकर्मसंहतिनिगडो गा.-१०७ ३३५

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376