Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 353
________________ गा.-१०७ बन्धशतकप्रकरणम् अत्थं च इमं नाउं बंधस्स उ कारणेण परिचाओ । मोक्खस्स कारणेणं गहणे जत्तं करिस्संति ॥१११७॥ तं काऊणं निद्दड्डअट्ठकम्भिधणा महासत्ता । निस्सेसभयविमुक्का अइरा सिद्धि लहिस्संति ॥१११८॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत्किञ्चिदिह वितथम् ॥१॥ सूत्रमतिलय लिखितं, तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥२॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ॥३॥ कृत्वा यदृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ॥४॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥१॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीद्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥२॥ एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुङ्गत्वप्रकृतिक्षमाधरपतिः सौम्यत्वतारापतिः । सम्यग्ज्ञानविशुद्धसंयमतपः स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवन्निःसङ्गचूडामणिः ॥३॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः ॥४॥ ३३७

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376