Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 349
________________ गा.-१०५ बन्धशतकप्रकरणम् एसो बंधसमासो पिंडुक्खेवेण वन्निओ कोवि । कम्मप्पवायसुयसागरस्स निस्संदमेत्तो य ॥१०५॥ एषः पूर्वोक्तो बन्धसमासो बन्धसङ्क्षपः, कोऽपि-कियन्मात्रोऽपि, वर्णितः-भणितः, केनेत्याह पिंडुक्खेवेण'त्ति | पिण्डस्य-पिण्डितस्य यथास्थितस्य, कर्मप्रकृतिश्रुतविशेषादुत्क्षेपः तेन, एतदुक्तं भवति-यथा कर्मप्रकृतौ वर्णितः तथैव मयापि, न स्वमनीषिकया । कथंभूतो बन्धसमास इत्याह-जलघटादीनामिव निष्पन्दमात्रोऽत्यल्प इत्युक्तं भवति । कस्य निष्पन्द इत्याहकर्मणः प्रवादः-प्रकृष्टं भणनं यत्र तत् कर्मप्रवादः । कर्मप्रकृतिलक्षणश्रुतं तदेव महत्त्वात् सागरः कर्मप्रवादश्रुतसागरः तस्येति । अस्य च बन्धसमासस्याल्पस्य तस्मादुद्धृत्य भणने कारणमादावेवोक्तमिति गाथार्थः ॥१०५॥ भा० एसो बंधसमासो बंधविहाणस्स कोइ संखेवो । पडुक्खेवेणं वन्निओ त्ति एयस्स एसत्थो ॥११०२॥ कम्मप्पयडिसुयाओ पिंडस्स य पिडियस्स बंधस्स । जहठियसरूवगस्स य इय पज्जायंतरगयस्स ॥११०३॥ उक्खेवो उद्धारो पिंडुक्खेवो त्ति तेण संमिलिओ । पज्जाओ एसो किर जहठियउद्धाररूवेण ॥११०४॥ कम्मप्पयडिसुयाओ इमं कइमेत्तो य वन्निओ भणिओ । नो समईए किंपिव भणिओ एसोत्थ परमत्थो ॥११०५॥ ३३३

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376