SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ गा.-१०३ बन्धशतक-A प्रकरणम् १०४ स्थितिविशेषेभ्यस्तान्यसङ्ख्येयगुणानि, यतः सर्वजघन्योऽपि स्थितिविशेषोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणैरध्यवसायस्थानैर्जन्यते, - | | उत्तरे तु स्थितिविशेषास्तैरेव यथोत्तरविशेषवृद्धैर्जन्यन्तेऽतस्तेभ्यस्तान्यसङ्ख्यातगुणानि सिद्धानि ॥१०२॥ ___ 'तेसिमसंखेजे'त्यादि इह 'अनुभागे' इत्यत्र एकारोऽलाक्षणिको ‘बंधठाणाणीत्यत्रापि अध्यवसायशब्दो लुप्तो दृष्टव्यो, 'हुंती'त्यस्यापि व्यवहितसम्बन्धः । ततश्चानु पश्चात् बन्धोत्तरकालम्, भज्यते सेव्यतेऽनूभूयत इत्यनुभागो रसस्तस्य बन्धोऽनुभागबन्धः, अध्यवसायस्थानानीति पूर्ववत् । अनुभागबन्धस्य कारणभूतान्यध्यवसायस्थानान्यनुभागबन्धाध्यवसायस्थानानि । स्थितिबन्धाध्यवसायस्थानेभ्यस्तान्यसङ्ख्येयगुणानि भवन्ति । स्थितिबन्धाध्यवसायस्थानं ह्येकैकमन्तर्मुहूर्तमुक्तम् । अनुभागबन्धाध्यवसायस्थानं त्वेकैकं जघन्यत:सामयिकमुत्कृष्टतस्त्वष्टसामयिकान्तमेवोक्तम्, अत एकस्मिन्नपि नगरकल्पे स्थिति| बन्धाध्यवसायस्थाने तदन्तर्गतानि नगरान्तर्गतोच्चैर्नीचैर्गृहकल्पानि नानाजीवान् कालभेदेनैकजीवं वा समाश्रित्यासङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागबन्धाध्यवसायस्थानानि भवन्ति । तथाहि-जघन्यस्थितिजनकानामपि स्थितिबन्धाध्यवसायस्थानानां मध्ये यदाद्यं सर्वलघुस्थितिबन्धाध्यवसायस्थानं तस्मिन्नपि देशक्षेत्रकालभावजीवभेदानामसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धाध्यवसायस्थानानि प्राप्यन्ते, द्वितीयादिषु तान्यप्यधिकान्यधिकतराणि प्राप्यन्ते इति सर्वेष्वपि स्थितिबन्धाध्यवसायस्थानेषु । तेषु भावना कार्या । अतस्तेभ्यस्तान्यसङ्ख्येयगुणानीति स्थितम् ‘एत्तो अणंतगुणिआ' इत्यादि । एतेभ्योऽनुभागबन्धाध्यवसायस्थानेभ्यः कर्मस्कन्धा अनन्तगुणा मुणितव्याः, यत एते सिद्धानन्तभागेऽभव्येभ्योऽनन्तगुणाः प्रतिसमयं गृह्यन्त ३२७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy