________________
बन्धशतक प्रकरणम्
नानाजीवेषु मतिज्ञानावरणादीनां शेषाणामप्यावरणानाम् । तथाहि - अन्यासामपि सर्वासां मूलोत्तरप्रकृतीनां देशक्षेत्रकालभावभेदेन बन्धवैचित्र्यादुदयवैचित्र्यात् चासङ्ख्येयभेदा भवन्ति । चतसृणामानुपूर्वीणां बन्धोदयवैचित्र्येणासङ्ख्येयभेदा भवन्ति । ते च लोकस्याऽसङ्ख्येयभागवर्त्तिप्रदेशराशितुल्या इति चूर्णिकारोक्तो विशेषः ।
ननु जीवानामनन्तत्वात् तेषां बन्धोदयवैचित्र्येणानन्ता अपि प्रकृतिभेदाः कस्मान्न भवन्ति ? नैतदेवम्, सदृशानां बन्धोदयानामेकत्वेन विवक्षितत्वात्, विसदृशास्त्वेतावन्त एव तद्भेदा भवन्ति । ते च भेदाः प्रकृतिभेदत्वात् प्रकृतय उच्यन्ते । तासामसङ्ख्येयभागानां प्रकृतिनां सङ्ग्रहः समुदायो योगस्थानेभ्यो ऽसङ्ख्येयगुणो, यत एकैकस्मिन् योगस्थाने वर्त्तमानैर्नानाजीवैः कालभेदादेकजीवेन वा सर्वेऽप्येताः प्रकृतय बध्यन्त इति ॥ १०१ ॥
ताभ्यश्च प्रकृतिभ्यः स्थितिविशेषाः - अन्तर्मूहूर्त्तसमयाधिकान्तर्मूहूर्त्तद्विसमयाधिकान्तर्मूहूर्त्तलक्षणाः, असङ्ख्यातगुणा भवन्ति ज्ञातव्याः, एकैकस्याः प्रकृतेरसङ्ख्येयैः स्थितिविशेषैर्बद्ध्यमानत्वात् । एकमेव हि प्रकृतिभेदं कश्चिजीवोऽन्येन स्थितिविशेषेण बध्नाति, अन्यस्त्वन्येन, अपरस्त्वन्येन इत्येवमेकस्याऽपि प्रकृतिभेदस्यासङ्ख्याताः स्थितिविशेषा भवन्ति । अतः प्रकृतिभेदेभ्यः स्थितिविशेषा असङ्ख्यातगुणा इति । 'ठिड़बंधे- 'त्यादि स्थिति: कर्मणोऽवस्थानशक्ति, तस्या बन्धः स्थितिबन्धः, अध्यवसानानि- अध्यवसायास्त्विह जीवपरिणामविशेषाः । तिष्ठन्ति जीवा येष्विति स्थानानि अध्यवसाया एव स्थानानि अध्यवसायस्थानानि, स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानान्यनन्तरगाथोक्तस्वरूपाणि,
गा. १०३१०४
३२६