________________
गा.-१०३
बन्धशतकप्रकरणम्
१०४
इत्युक्तम्, अनुभागबन्धाध्यवसायस्थानानि तु सर्वाण्यप्यसङ्ख्येयान्येवोक्तानि, अत एतेभ्यः तेषामनन्तगुणता सिद्धैवेति ॥१०३॥
'अविभागे'त्यादि 'इह क्षीरनिम्बरसाद्यधिश्रणैरिवानुभागबन्धाध्यवसायस्थानैः तन्दुलेष्विव कर्मपुद्गलेषु रसो जन्यते, सचैकस्यापि परमाणोः सम्बन्धी केवलिप्रज्ञयाच्छिद्यमानः सर्वजीवानामनन्तगुणानविभागपलिच्छेदान् प्रयच्छति । यस्माद्भागादतिसूक्ष्मतयाऽन्यो भागो नोत्तिष्ठति, सोऽविभागपलिच्छेद उच्यते । एवंभूतस्यानुभागस्याविभागाः पलिच्छेदाः सर्वकर्मस्कन्धेषु प्रतिपरमाणु सर्वजीवानन्तगुणाः प्राप्यन्ते । तदुक्तम्
गहणसमयम्मि जीवो उप्पाएइ उ गुणे सप्पच्चयओ । सव्वजियाणंतगुणे कम्मपएसेसु सव्वेसु ॥१॥ गुणशब्देनेहाविभागपलिच्छेदा उच्यन्ते, शेषं सुगमम् । कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वेऽपि सिद्धानामप्यनन्तभाग एव वर्त्तन्ते । अतस्तेभ्योऽप्यविभागलिच्छेदा अनन्तगुणाः सिद्धाः । नन्वेतदल्पबहुत्वं किं त्वया स्वत एवोत्प्रेक्षितमथान्येन केनचित्कथितमित्याह- 'सुयपवरो' इत्यादि, दृष्टीनां समस्तदर्शनानां वादो विचारो यत्र स दृष्टिवादः, श्रुतं-द्वादशाङ्गम्, | तन्मध्येऽनेकातिशयसम्पन्नत्वेन प्रवर:-प्रधानः, स चासौ दृष्टिवादश्च श्रुतप्रवरदृष्टिवादः तस्मिन् श्रुतप्रवरदृष्टिवादे, विशिष्टमतयःतीर्थकरगणधराः, परिकथयन्त्येतत्, न पुनः मया स्वयमुत्प्रेक्षितमिति ॥१०४॥
१. 'णियपरिणामेण जणइ रसाणू (निजपरिणामेन जनयति रसाणून्) इति सि. । २. ग्रहणसमये जीव उत्पादयति तु गुणान् स्वप्रत्ययतः । सर्वजीवानन्तगुणान् कर्मप्रदेशेषु सर्वेषु ॥१॥ ३. 'एव विवक्षि' सि.
३२८