Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 342
________________ बन्धशतक प्रकरणम् नानाजीवेषु मतिज्ञानावरणादीनां शेषाणामप्यावरणानाम् । तथाहि - अन्यासामपि सर्वासां मूलोत्तरप्रकृतीनां देशक्षेत्रकालभावभेदेन बन्धवैचित्र्यादुदयवैचित्र्यात् चासङ्ख्येयभेदा भवन्ति । चतसृणामानुपूर्वीणां बन्धोदयवैचित्र्येणासङ्ख्येयभेदा भवन्ति । ते च लोकस्याऽसङ्ख्येयभागवर्त्तिप्रदेशराशितुल्या इति चूर्णिकारोक्तो विशेषः । ननु जीवानामनन्तत्वात् तेषां बन्धोदयवैचित्र्येणानन्ता अपि प्रकृतिभेदाः कस्मान्न भवन्ति ? नैतदेवम्, सदृशानां बन्धोदयानामेकत्वेन विवक्षितत्वात्, विसदृशास्त्वेतावन्त एव तद्भेदा भवन्ति । ते च भेदाः प्रकृतिभेदत्वात् प्रकृतय उच्यन्ते । तासामसङ्ख्येयभागानां प्रकृतिनां सङ्ग्रहः समुदायो योगस्थानेभ्यो ऽसङ्ख्येयगुणो, यत एकैकस्मिन् योगस्थाने वर्त्तमानैर्नानाजीवैः कालभेदादेकजीवेन वा सर्वेऽप्येताः प्रकृतय बध्यन्त इति ॥ १०१ ॥ ताभ्यश्च प्रकृतिभ्यः स्थितिविशेषाः - अन्तर्मूहूर्त्तसमयाधिकान्तर्मूहूर्त्तद्विसमयाधिकान्तर्मूहूर्त्तलक्षणाः, असङ्ख्यातगुणा भवन्ति ज्ञातव्याः, एकैकस्याः प्रकृतेरसङ्ख्येयैः स्थितिविशेषैर्बद्ध्यमानत्वात् । एकमेव हि प्रकृतिभेदं कश्चिजीवोऽन्येन स्थितिविशेषेण बध्नाति, अन्यस्त्वन्येन, अपरस्त्वन्येन इत्येवमेकस्याऽपि प्रकृतिभेदस्यासङ्ख्याताः स्थितिविशेषा भवन्ति । अतः प्रकृतिभेदेभ्यः स्थितिविशेषा असङ्ख्यातगुणा इति । 'ठिड़बंधे- 'त्यादि स्थिति: कर्मणोऽवस्थानशक्ति, तस्या बन्धः स्थितिबन्धः, अध्यवसानानि- अध्यवसायास्त्विह जीवपरिणामविशेषाः । तिष्ठन्ति जीवा येष्विति स्थानानि अध्यवसाया एव स्थानानि अध्यवसायस्थानानि, स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानान्यनन्तरगाथोक्तस्वरूपाणि, गा. १०३१०४ ३२६

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376