Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 341
________________ गा.-१०३ बन्धशतकप्रकरणम् १०४ तेसिमसंखेज्जगुणा अणुभागे हुंति बंधठाणाणि । एत्तो अणंतगुणिआ कम्मपएसा मुणेयव्वा ॥१०३॥ अविभागपलिच्छेआ अणंतगुणिया हवंति इत्तो य । सुयपवरदिट्ठिवाए विसिट्ठमइओ परिकहति ॥१०४॥ एकस्याः समयप्रसिद्धाकाशश्रेणेरसङ्ख्येयभागे' यावन्तः प्रदेशास्तत्सङ्ख्यानि योगस्थानानि सर्वाण्यपि भवन्ति । तानि चोत्तरपक्षापेक्षया स्तोकानीति शेषः, यथा चैतान्येतावन्ति भवन्ति, तथाऽनन्तरगाथायां सविस्तरमुक्तमिति नेहोच्यते । तेभ्यश्च । योगस्थानेभ्योऽसङ्ख्येयगुणो ज्ञानावरणादिप्रकृतीनां सर्वोऽपि सङ्ग्रह: समुदायो मीलक इत्यर्थः । अयमत्र भावार्थ:-इह तावदावश्यकादिष्ववधिज्ञानदर्शनयोः क्षयोपशभेदादसङ्ख्येयभेदा उक्ताः "संखाइआओ खलु ओहीनाणस्स सवपयडीओ" इत्यादिवचनात् । ततश्चैतदावरणबन्धस्याऽपि एतावन्तो भेदा भवन्त्येव, बद्धस्यैव क्षयोपशमोपपत्तेरिति । तथाहि-अवधारणं कश्चित् जीवो देशक्षेत्रकालभावभेदादन्यादृशं बध्नाति कश्चित्तु अन्यादृशम्, उदेत्यपि कस्यचिदन्यथा कस्यचित्त्वन्यथेति । एवं १. सङ्ख्यातीताः खल्ववधिज्ञानस्य सर्वाः प्रकृतयः । ३२५

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376