SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ बन्धशतक विशिष्यते । सत्यमस्ति, तथाहि - कर्मयोग्यायोग्यमपि द्रव्यविभागदर्शनार्थमेव सजातीयपरमाण्वादिद्रव्यसमुदायरूपा वर्गणाः प्ररूप्यन्तेप्रकरणम् इह समस्तलोकाकाशप्रदेशेषु ये केचनैकाकिनः परमाणवो विद्यन्ते तत्समुदायः सजातीयत्वादेका वर्गणा, इयं च स्वाभावाज्जीवानां ग्रहे नागच्छतीति अग्रहणवर्गणेत्युच्यते । एवं द्विप्रादेशिकस्कन्धवर्गणाप्यग्रहणवर्गणा । एवं त्रिचतुष्पञ्चादिप्रादेशिकस्कन्धानामपि वर्गणा वाच्याः, यावत्सङ्ख्यातप्रादेशिकस्कन्धानामपि वर्गणा अग्रहणवर्गणाः, एवमसङ्ख्यातप्रादेशिकस्कन्धानामपीति । अनन्तानन्तप्रादेशिकस्कन्धवर्गणा अप्यनन्ता अतिक्रम्यात्रान्तरेऽनन्तानन्तैरेव परमाणुभिर्निष्पन्नानामेकोत्तरवृद्धिभाजां स्कन्धानां समुदायरूपा अनन्ता औदारिकशरीरनिष्पत्तिहेतुभूता औदारिकवर्गणा भवन्ति । तदनन्तरं द्रव्यमाश्रित्य वृद्धानां परिणामं त्वाश्रित्य सूक्ष्माणामेकोत्तरवृद्धिभाजां स्कन्धानां समुदायरूपा वैकियशरीरनिष्पत्तिहेतुभूता अनन्ता वैक्रियवर्गणा भवन्ति । तदनन्तरं द्रव्यतो वृद्धानां परिणामं त्वाश्रित्य सूक्ष्मतराणामेकोत्तरवृद्धिमतामेव स्कन्धानां समुदायरूपा आहारकशरीरनिष्पत्तिहेतुभूता अनन्ता आहारकवर्गणा । अत्र च जघन्यवर्गणारम्भकस्कन्धस्यानन्तभागे यावन्तोऽणवस्तत्प्रमाणेन विशेषेणोत्कृष्टवर्गणारम्भक एकैकस्कन्धोऽधिको मन्तव्यः, एवमौदारिकवैक्रियवर्गणास्वपि जघन्यवर्गणारम्भकस्कन्धेभ्य उत्कृष्टवर्गणारम्भकस्कन्धानां विशेषाधिकत्वं वाच्यमिति । तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या अग्रहणवर्गणा, अतीतवक्ष्यमाणाहारकतैजसयोरयोग्यतेति कृत्वा । एवमेता अपि यथोत्तरं एकोत्तरवृद्धिमत्स्कन्धारब्धा अनन्ता अग्रहणवर्गणा भवन्ति । एवं जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणा स्कन्धा अन्तगुणपरमाण्वारब्धा द्रष्टव्याः । स च गुणकारः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणो द्रष्टव्यः । वर्गणा अप्येता एतद्गुणकारवृद्धपरमाणुराशिसङ्ख्योपेता गा.-८८८९ २६५
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy