________________
बन्धशतक प्रकरणम्
द्रष्टव्याः । एवमुत्तरत्रापि यावन्तो निजनिजगुणकारकेष्वणवो वर्द्धन्ते, वर्गणा अपि तत्सङ्ख्या द्रष्टव्याः, तदुपरि रूपाधिकस्कन्धारब्धा तैजसशरीरनिष्पत्तिहेतुभूता जघन्या तैजसवर्गणा । ततो यथोत्तरमेकैकवृद्धिमत्स्कन्धारब्धा एता अप्यनन्ता वर्गणा वाच्याः । जघन्यवर्गणारम्भकस्कन्धपरमाणुभ्यश्चोत्कृष्टवर्गणारम्भकस्कन्धपरमाणवो विशेषाधिकाः, स च विशेषो जघन्यवर्गणास्कन्धस्यानन्तभागलक्षणस्तदनन्तरं रूपाधिकस्कन्धैरारब्धा जघन्या अग्रहणवर्गणा, अतीतवक्ष्यमाणतैजसभाषायोग्यत्वादेता अपि सगुणकारास्तैजसाहारकान्तरालवर्गणावदनन्ता वाच्याः, तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या भाषावर्गणा । तत एकोत्तरवृद्धिमत्स्कन्धारब्धा एता अपि भाषानिष्पत्तिहेतुभूता अनन्ता भाषावर्गणा मन्तव्याः । जघन्यस्कन्धादुत्कृष्टस्कन्धस्य च विशेषाधिकत्वं | तैजसवर्गणावद्वाच्यम् । तदुपरि भाषाऽऽनापानवर्गणाऽयोग्यत्वात् पूर्वोक्ताग्रहणवर्गणावत् सगुणकारा अनन्ता अग्रहणवर्गणा बोद्धव्याः । तदुपरि भाषावर्गणावत् अनन्ता आनापानवर्गणा ज्ञेयाः, जघन्यादुत्कृष्टस्कन्धस्य विशेषाधिकत्वमपि तथैव, ततोऽप्युपरि आनापानमनोऽयोग्यत्वात् पूर्ववत्सगुणकारा अनन्ता अग्रहणवर्गणा वाच्याः । तदुपरि आनापानवर्गणावन्मनोनिष्पत्तिहेतुका अनन्ता मनोवर्गणा अवसेया, विशेषाधिकत्वमप्युत्कृष्टस्कन्धानां तथैव । तदुपरि मनः कर्माऽयोग्यत्वात् तथैव सगुणकारा अनन्ता अग्रहणवर्गणा | ज्ञातव्याः । तदुपरि च ज्ञानावरणादिहेतुभूता मनोवर्गणावदनन्ताः कर्मवर्गणा अवगन्तव्याः । विशेषाधिकत्वमप्युत्कृष्टस्कन्धानां तथैव । ततो रूपाधिकस्कन्धैराराब्धा जघन्या ध्रुवा अचित्तवर्गणा, तत एकोत्तरवृद्धिमत्स्कन्धैरारब्धा एता अप्यनन्ताः । जघन्यवर्गणारम्भकस्कन्धादुत्कृष्टवर्गणारम्भकस्कन्धः अनन्तगुणवृद्धः, स च गुणकारः सर्वजीवेभ्योऽनन्तगुणः । एताश्च वर्गणा न
गा.-८८८९
२६६