SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् कदाचिल्लोके न भवन्ति अतो ध्रुवा उच्यन्ते । चैतन्यरहितत्वेन त्वचित्ताः । मध्ये च कृतमिदं विशेषणं पूर्वमुत्तरत्र च द्रष्टव्यम् । | सर्वस्यापि पुद्गलराशेरचित्तत्वादिति । ध्रुवत्वविशेषणं तु प्रागपि सर्वत्र द्रष्टव्यम् । तासामपि सर्वदैव लोके सद्भावात्, उत्तरत्र त्विदं न सम्बध्यते, कासाञ्चित्कदाचिदसत्त्वादपि । तथाहि तदुपरि रूपाधिकस्कन्धारब्धा जघन्याऽध्रुवाचित्तवर्गणा भवति । ततो रूपाधिकस्कन्धैरारब्धा एता अप्यनन्ता ध्रुवाचित्तवर्गणावत्सगुणकारा वाच्याः । लोके च कदाचिदेता न भवन्ति अपीत्यध्रुवा उच्यन्ते । तदुपरि त्वेकोत्तरवृद्धिभाजोऽनन्ताः शून्यवर्गणा भवन्ति । गुणकारः सर्वजीवानन्तगुणः पूर्वद्वाच्यः । एताश्च प्ररूपणामात्रम्, द्रव्यस्याभावात् । प्ररूप्यन्ते तर्हि किमर्थमिति चेत् ? उच्यते, अध्रुवाचित्तोत्कृष्टवर्गणाया अनन्तरवक्ष्यमाणप्रत्येकशरीरजघन्यवर्गणायाश्चान्तरे यद्येकोत्तरवृद्धया द्रव्यं लभ्यते, तदैतावत्यो वर्गणा उत्तिष्ठन्त इत्यन्तरालमहत्त्वख्यापनार्थमेताः प्ररूप्यन्ते, न पुनरत्र द्रव्यमस्ति अत एता: शून्यवर्गणाः, एवमुत्तरास्वपि शून्यवर्गणासु समादानं वाच्यम् । तदुपरि एत्तरवृद्धिमत्स्कन्धसमुदायैरारब्धा अनन्ताः प्रत्येकशरीरवर्गणा वाच्या: । अत्र च जघन्यवर्गणास्कन्धाणुभ्य उत्कृष्टवर्गणास्कन्धाणवोऽसङ्ख्येयगुणाः, स च गुणकारः क्षेत्रपल्योपमाङ्ख्येयभागवर्त्तिप्रदेश| राशिरूपः । एताश्च प्रत्येकशरीरिभिः पृथिव्यादिजीवैर्यथासम्भवं यदुपात्तमौदारिकादिशरीरपञ्चकहेतुभूतमौदारिकवैक्रियाहारकतैजसकार्मणनामकर्म तदाश्रयेण वर्त्तन्ते, तदावृत्त्य तिष्ठन्ति । यथा भूमिकादिपुद्गलाः पर्वताश्रयेणेत्यतः प्रत्येकशरीरवर्गणा उच्यन्ते । तदुपरि पुनः साक्षेपपरिहाराः शून्यवर्गणास्तथैव वाच्याः । केवलमत्र गुणकारोऽसङ्ख्येयलोकाकाशप्रदेशराशिरूपः । तदुपरि रूपाधिकैर्यथोत्तरमेकोत्तरवृद्धैश्च स्कन्धैरारब्धा अनन्ता बादरनिगोदवर्गणा वाच्याः । जघन्यस्कन्धेभ्य उत्कृष्टानामणूनाश्रित्या गा.-८८८९ २६७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy