SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ AI गा.-८८ बन्धशतकप्रकरणम् AAAAAAAAAAAAAAAAAAA सङ्ख्यातगुणवृद्धत्वात्, स च गुणकारः क्षेत्रपल्योपमासङ्ख्येयभागः । इह च बादरनिगोदजीवानां यान्यौदारिकादिशरीरनामकर्माणि सम्भवन्ति, तदाश्रयेणैता वर्त्तन्त इति बादरनिगोदवर्गणा उच्यन्ते । तदुपरि पुनरपि अनन्ताः शून्यवर्गणाः, जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणास्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः । स च गुणकारोऽङ्गलासङ्ख्येयभागवतिक्षेत्रस्य यावन्त आवलिकासङ्ख्येयभागे समयास्तावन्ति वर्गमूलानि गृह्यन्ते । तत्र चरमवर्गमूले यावन्त आकाशप्रदेशास्तदसङ्ख्येयभागरूपो द्रष्टव्यः, आक्षेपपरिहारौ पूर्ववत् । तदुपरि अनन्ताः सूक्ष्मनिगोदवर्गणाः । जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणास्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः । स च गुणकारः आवलिकाऽसङ्ख्येयभागवर्तिसमयराशिमानः, एताश्च सूक्ष्मनिगोदजीवानां यान्यौदारिकतैजसकार्मणनामकर्माणि सम्भवन्ति, तदाश्रयेण वर्तन्ते इति सूक्ष्मनिगोदवर्गणा उच्यन्ते । तदुपरि पुनरपि अनन्ताः शून्यवर्गणा जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणानां स्कन्धाः अणूनाश्रित्यासङ्ख्यातगुणवृद्धाः, स च गुणकारोऽसङ्ख्येयाकाशश्रेणिप्रदेशराशिमानः प्रतरासङ्ख्येयभाग इति यावदाक्षेपपरिहारौ तथैव । तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या महास्कन्धवर्गणा, तत एकोत्तरवृद्धिमत्स्कन्धारब्धा एता अप्यनन्ता वाच्याः । जघन्यवर्गणारम्भकस्कन्धेभ्य उत्कृष्टवर्गणारम्भकस्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः, स च गुणकारः क्षेत्रपल्योपमासङ्ख्येयभागः 'सङ्ख्येयभाग' इति पाठान्तरम् । एताश्च महास्कन्धवर्गणा भूभृत्कूटटङ्काराद्याश्रयेणैव वर्त्तन्त इति प्रतिपत्तव्यम् । अत्र च जघन्यौदारिकवर्गणास्कन्धा अप्यभव्येभ्योऽनन्तगुणैः सिद्धानन्तभागवर्तिभिः पुद्गलैर्निष्पन्ना, वर्गणा अपि औदारिकाद्याः सर्वत्रानन्ता उक्ता इति यथास्थित्या दर्शयितुमशक्त्वात् पञ्चादिपरमाणुनिष्पन्नान् स्कन्धान् प्रत्येकं त्रिप्रमाणा वर्गाश्च परिकल्प्य विनेयानुग्रहार्थमौदारिकवर्गणा आदौ कृत्वा स्थापना दर्शाते वी. २६८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy