SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् कुर्वन्ति । निबिडसुवर्णश्रृङ्खलावत्परस्परसम्बद्धत्वादेकस्मिन् प्रदेशे चेष्टमाने सर्वेषामपि चेष्टनादतः सर्वैः प्रदेशैः सर्वप्रदेशसन्निहितं द्रव्यं जीवो बध्नातीत्यर्थः । पुनरपि कथम्भूतं तदित्याह - कर्मणो योग्यं कर्मवर्गणान्तर्गतमित्यर्थः । ननु तत्किं सहेतुकं बध्नाति, निर्हेतुकं वा ? इत्याह- 'जहुत्तहेउं 'ति यथोक्तहेतुर्ये पूर्वं मिथ्यात्वादयः सामान्यविशेषा हेतवः प्रोक्तास्तैर्बन्धाति न निर्हेतुकमिति भावः । एतच्च सादिकमनादिकं च बध्नाति । तत्र यो बन्धव्यवच्छेदं कृत्वा प्रतिपत्य पुनस्ता एव प्रकृतीर्बध्नाति तस्य सादिर्बन्धोऽकृतबन्धव्यवच्छेदस्य त्वनादिः । अपिशब्दादभव्यो ध्रुवं भव्योऽध्रुवं बध्नातीत्यपि द्रष्टव्यम् । तच्च द्रव्यं प्रतिस्कन्धं कृष्णादिपञ्चवर्णोपेतं तिक्तादिरसपञ्चकयुक्तं सुरभीतरद्विगन्धं चतुःस्पर्शं च गृह्णाति । तत्र मृदुलघुलक्षणं स्पर्शद्वयं तावदवस्थितं भवति, अपरौ च स्निग्धोष्णौ स्निग्धशीतौ वा रूक्षोष्णौ रूक्षशीतौ वा द्वावविरुद्धस्पर्शो भवतः । प्रज्ञप्त्याद्यभिप्रायात्तु स्निग्धरूक्षशीतोष्णा भवन्ति । कियत्प्रमाणं गृह्णातीत्याह 'अणंतपएसं 'ति अनन्ताः प्रदेशाः पुद्गलाः स्कन्धा यत्र तदनन्तप्रदेशम् । तत्रानन्तकस्य बहुभेदत्वाद् विशेषयति-'सिद्धेहिं अणंतगुणहीणं 'ति उपलक्षणत्वादभव्येभ्योऽनन्तगुणं सिद्धेभ्योऽनन्तगुणहीनं द्रव्यं गृह्णातीत्यर्थः । एतदुक्तं भवत्यभव्येभ्योऽनन्तगुणैः सिद्धेभ्योऽनन्तगुणहीनै: परमाणुभिर्निष्पन्ननेकैकं कर्मस्कन्धं गृह्णाति । तानपि स्कन्धान् प्रतिसमयमभव्येभ्योऽनन्तगुणान् सिद्धानामनन्तभागवर्त्तिन एव गृह्णातीति गाथाद्वयार्थः ॥८८॥ अत्राह नन्वाद्यगाथायां कर्मणो योग्यमिति द्रव्यस्य विशेषणं कृतं तत्किं कर्मायोग्यमपि किञ्चिद् द्रव्यमस्ति ? येनैवं गा.-८८८९ २६४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy