SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ प्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र कर्मप्रदेशादानविधौ बन्धशतकप्रकरणम् गा.-८८ ८९ एगपएसो गाढं सव्वपएसेहि कम्मुणो जोग्गं । बंधइ जहुत्तहेउं साइयमणाइयं वावि ॥८८॥ पंचरसपंचवन्नेहि संजुयं दुविहगंधचउफासं । दवियमणंतपएसं सिद्धेहि अणंतगुणहीणं ॥८९॥ इह पुद्गलद्रव्यं जीवो बध्नातीति योगः । कथम्भूतमित्याह-'एगपएसो गाढं'ति एकस्मिन् प्रदेशेऽवगाढमेकप्रदेशावगाढम् । यत्रैव जीवस्यात्मप्रदेशास्तत्रैव यदवगाढं तदेव बध्नाति, न पुनरन्यत्तत्रानीय बध्नाति, इत्यर्थः । यथाहि दहनः स्वक्षेत्रस्थमेव दाह्यमात्मसात्करोति, न व्यवहितमेवं जीवोऽपि स्वक्षेत्रस्थम्, एव द्रव्यमादत्ते, न हि बहिर्वर्तीति भावः । तच्च सर्वैरप्यात्मीयप्रदेशैर्बध्नाति, न त्वेकेन व्यादिभिर्वा, एतदुक्तं भवति-समस्तलोकाकाशप्रदेशराशिप्रमाणा एकस्य जन्तोः प्रदेशा भवन्ति । मिथ्यात्वादिबन्धकारणोदये च सति सर्वं स्वस्वाकाशप्रदेशेभ्यो युगपदेव कर्मद्रव्यं गृह्णन्ति, परस्परं च सर्वेऽप्युप १. 'परिणयं'सि. २६३ AA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy