Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
गा.-९८
बन्धशतकप्रकरणम्
सन्नी उक्कडजोगी पज्जत्तो पयडिबंधमप्पयरो ।
कुणइ पएसुक्कोसं जहन्नयं जाणविवरीयं ॥९८॥ इह मनोविकल्पलब्धिः सञत्युच्यते, सा यस्यास्त्यसौ सञी, स प्रदेशबन्धमुत्कृष्टं करोतीति सण्टङ्कः उत्कृष्टप्रदेशबन्धो हि तीव्रचेष्टस्य भवति । चेष्टा च समस्तजीवराशिमध्ये सचिन एव तीव्रा भवतीत्यस्य ग्रहणम् । ननु सञी किं सर्वोऽपि तमुत्कृष्टं करोति ? नेत्याह-'पजत्तो'त्ति यथायोगं सम्बन्धः, अपर्याप्तात्पर्याप्तस्य तीव्रचेष्टत्वादिति भावः । स चाल्पव्यापारोऽपि भवतीत्याह-'उक्कडजोगि'त्ति सर्वोत्कृष्टयोगे व्यापारे वर्तमान इत्यर्थः । एवंभूतोऽपि यदि बह्वीनां ज्ञानावरणादिप्रकृतीनां बन्धको भवति, तदा भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इत्याह-'पयडिबंधमप्पयरो'त्ति प्रकृतिबन्धमाश्रित्याल्पतरो विवक्षित| प्रकृतिबन्धकेष्वल्पप्रकृतिबन्धक इत्यर्थः । एतावद्विशेषणविशिष्ट एव जन्तुरुत्कृष्टप्रदेशबन्धं करोति । अतः पूर्वोक्तोत्कृष्टप्रदेशबन्धकजन्तूनामनुक्तान्यप्येतानि विशेषणानि द्रष्टव्यानि । 'जहन्नयं जाण विवरीय'त्ति उक्तविपरीते जन्तौ जघन्यकं प्रदेशबन्धं जानीहि इदमुक्तं भवति-असञी जघन्ययोगो लब्ध्यपर्याप्तको विवक्षितप्रकृतिबन्धकेषु बहुप्रकृतिबन्धको मूलोत्तरप्रकृतीनां । जघन्यं प्रदेशबन्धं करोति । अतो वक्ष्यमाणजघन्यप्रदेशबन्धकजन्तूनामेतानि विशेषणानि द्रष्टव्यानीति गाथार्थः ॥९८॥
भा० सन्नी गाहा सुगमा अह पत्थुय उत्तराण पयडीणं । पभणइ य जहन्नबंधसामित्तं घोलगाहाए ॥९४९॥ इदानी प्रकृतमेवोत्तरप्रकृतीनां जघन्यप्रदेशबन्धस्वामित्वमभिधित्सुराह

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376