SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ गा.-९८ बन्धशतकप्रकरणम् सन्नी उक्कडजोगी पज्जत्तो पयडिबंधमप्पयरो । कुणइ पएसुक्कोसं जहन्नयं जाणविवरीयं ॥९८॥ इह मनोविकल्पलब्धिः सञत्युच्यते, सा यस्यास्त्यसौ सञी, स प्रदेशबन्धमुत्कृष्टं करोतीति सण्टङ्कः उत्कृष्टप्रदेशबन्धो हि तीव्रचेष्टस्य भवति । चेष्टा च समस्तजीवराशिमध्ये सचिन एव तीव्रा भवतीत्यस्य ग्रहणम् । ननु सञी किं सर्वोऽपि तमुत्कृष्टं करोति ? नेत्याह-'पजत्तो'त्ति यथायोगं सम्बन्धः, अपर्याप्तात्पर्याप्तस्य तीव्रचेष्टत्वादिति भावः । स चाल्पव्यापारोऽपि भवतीत्याह-'उक्कडजोगि'त्ति सर्वोत्कृष्टयोगे व्यापारे वर्तमान इत्यर्थः । एवंभूतोऽपि यदि बह्वीनां ज्ञानावरणादिप्रकृतीनां बन्धको भवति, तदा भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इत्याह-'पयडिबंधमप्पयरो'त्ति प्रकृतिबन्धमाश्रित्याल्पतरो विवक्षित| प्रकृतिबन्धकेष्वल्पप्रकृतिबन्धक इत्यर्थः । एतावद्विशेषणविशिष्ट एव जन्तुरुत्कृष्टप्रदेशबन्धं करोति । अतः पूर्वोक्तोत्कृष्टप्रदेशबन्धकजन्तूनामनुक्तान्यप्येतानि विशेषणानि द्रष्टव्यानि । 'जहन्नयं जाण विवरीय'त्ति उक्तविपरीते जन्तौ जघन्यकं प्रदेशबन्धं जानीहि इदमुक्तं भवति-असञी जघन्ययोगो लब्ध्यपर्याप्तको विवक्षितप्रकृतिबन्धकेषु बहुप्रकृतिबन्धको मूलोत्तरप्रकृतीनां । जघन्यं प्रदेशबन्धं करोति । अतो वक्ष्यमाणजघन्यप्रदेशबन्धकजन्तूनामेतानि विशेषणानि द्रष्टव्यानीति गाथार्थः ॥९८॥ भा० सन्नी गाहा सुगमा अह पत्थुय उत्तराण पयडीणं । पभणइ य जहन्नबंधसामित्तं घोलगाहाए ॥९४९॥ इदानी प्रकृतमेवोत्तरप्रकृतीनां जघन्यप्रदेशबन्धस्वामित्वमभिधित्सुराह
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy