________________
बन्धशतक प्रकरणम्
घोलणजोगि असन्नी बंधइ चउ दुन्नि अप्पमत्तो य । पंचासंजयसम्मो भवाइ सुहुमो भवे सेसा ॥९९॥
नरकदेवायुषी नरकद्विकं चेत्येताश्चतुः प्रकृतीर्घोलमानयोगः- परावर्त्तमानयोगोऽसञ्ज्ञी बध्नाति । जघन्यप्रदेशा इति प्रक्रमाल्लभ्यते । तथाहि पृथिव्यादयश्चतुरिन्द्रियावसाना देवनारकेषूत्पत्त्यभावादेतत्प्रकृतिचतुष्टयं न बध्नन्तीति नेहाधिक्रियन्ते । असञ्ज्ञी अपि अपर्याप्तकस्तथाविधसङ्क्लेशविशुद्ध्यभावान्नैतद् बध्नात्यतः सूत्रे सामान्योक्तावपि पर्याप्तकोऽसौ द्रष्टव्यः । सोऽपि यद्येकस्मिन्नेव वाग्योगे काययोगे वा चिरमवतिष्ठमानो गृह्येत तदा तीव्रचेष्टा भवेत्, योगात् योगान्तरं पुनः सङ्क्रामतः स्वभावादल्पा चेष्टा भवतीति परावर्त्तमानयोगस्य ग्रहणम् । ततश्च परावर्त्तमानयोगोऽष्टविधं बध्नन् पर्याप्तोऽसञ्ज्ञी स्वप्रायोग्यसर्वजघन्यवीर्ये स्थितः प्रस्तुतप्रकृतिचतुष्टयस्यैकं चतुरो वा समयान् यावजघन्यप्रदेशबन्धं करोतीति परमार्थः । पर्याप्तजघन्ययोगस्योत्कृष्टतोऽपि चतुः समयावसानत्वादुत्तरत्राप्येष कालनियमो द्रष्टव्यः ।
ननु पर्याप्तसञ्ज्ञी किमिति प्रस्तुतप्रकृतिचतुष्टयं न बध्नातीति चेत् ? उच्यते, प्रभूतयोगत्वाजघन्योऽपि हि पर्याप्तसञ्ज्ञियोगः पर्याप्तासयुत्कृष्टयोगादप्यसङ्ख्येयगुण इत्यलं विस्तरेण ।
'दुन्नि अप्पमत्तो 'ति 'घोलणयोगि 'त्येतद् अत्रापि सम्बध्यते । ततश्च परावर्त्तमानयोगोऽष्टविधबन्धकः स्वप्नयोग्य
गा.-९९
३०६