Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 323
________________ बन्धशतक गा.-९९ प्रकरणम् | सर्वजघन्यवीर्ये व्यवस्थितो नाम्न एकत्रिंशत्प्रकृतीबंध्नन्नप्रमत्तयतिराहारकद्विकं जघन्यप्रदेशं बध्नाति । त्रिंशबन्धेऽप्येतद् बध्यते, परं तत्राल्पा भागा इत्येकत्रिंशद्बन्धग्रहणम् । एतच्च प्रकृतिद्वयमन्यत्र न बध्यत इत्यप्रमत्तयतिग्रहणम् । शेषं पूर्ववत् । 'पंचासंजयसम्मो भवाइ'त्ति देवद्विकवैक्रियद्विकतीर्थकरनामलक्षणाः पञ्चप्रकृतीर्भवाद्यसमये वर्तमानोऽविरतसम्यग्दृष्टिजघन्यप्रदेशाः करोति । तथाहि-कश्चिन्मनुष्यः तीर्थकरनाम बद्ध्वा देवेषूत्पन्नः प्रथमसमये एव मनुष्यगतिप्रायोग्यां पूर्वदर्शितां - नामप्रकृतित्रिंशतं बध्नतः मूलप्रकृतिसप्तविधबन्धकोऽविरतसम्यग्दृष्टिः स्वप्रायोग्यजघन्यवीर्ये स्थितस्तीर्थकरनाम जघन्यप्रदेश बनाति । नारकोऽपि श्रेणिकादिवदेतबन्धकः सम्भवति, परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते । नारकेषु एवम्भूतो जघन्ययोगो न लभ्यते, अतस्तेषूत्पन्नो नेह गृहीतः । तिर्यञ्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षिताः । मनुष्यास्तु भवाद्यसमये तीर्थकरनामसहितां नाम्न एकोनत्रिंशतमेव बध्नन्ति, अतस्तत्राल्पा भागा भवन्ति । एकत्रिंशबन्धस्तु तीर्थकरनामसहितः संयतस्यैव भवति, तत्र च वीर्यमल्पं न लभ्यते । अन्येषु नामबन्धेषु तीर्थकरनामैव न बध्यते, अतः शेषपरिहारेण त्रिंशबन्धकस्य देवस्यैव ग्रहणम् । देवद्विकवैक्रियद्विकयोस्तु बद्धतीर्थकरनामा देवनारकेभ्यश्च्युत्वा समुत्पन्नो मूलप्रकृतिसप्तविधबन्धको भूयस्कारादिचिन्तावसरदर्शितस्वरूपां तीर्थकरनामसहितां देवगतिप्रायोग्यां नामैकोनत्रिशति निर्वर्तयन् स्वप्रायोग्यसर्वजघन्यवीर्ये व्यवस्थितो भवाद्यसमये वर्तमानो मनुष्यो जघन्यं प्रदेशबन्धं करोति । देवनारका हि तावद्भवप्रत्ययादेवैतत्प्रकृतिचतुष्टयं न बजन्तीति नेहाधिकृताः । तिर्यञ्चस्त्वकर्मभूमिजा भवादिसमयेऽपि बध्नन्त्येतत्, केवलं ते देवगतिप्रायोग्यामष्टाविंशतिमेव | AAAA ३०७

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376