Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 329
________________ बन्धशतक प्रकरणम् 'पन्नाए छिजन्ता असंखलोगाण जत्तिय पएसा । तत्तिय वीरियभागा जीवपएसम्म एक्वेक्वे ॥१॥ सव्वजहन्ने विरिए जीवपएसंमि एत्तिया संखा । तत्तो असंखगुणिया बहुविरिए जियपएसम्म ॥२॥ ति तत्र जघन्यवीर्यभागेन युक्तानां तत्प्रदेशानां समुदायः समानजातीयात्वादेका वर्गणा, एकेन वीर्यविभागेनाधिकानां तत्प्रदेशानां समुदायो द्वितीया वर्गणा, वीर्यभागद्वयाधिकानां तत्प्रदेशानां समुदायस्तृतीया वर्गणा, एवमेकस्या आकाशश्रेणेरसङ्ख्येयभागे यावन्तः प्रदेशाः तावत्यः एकोत्तरवृद्धिक्रमेण वर्गणा वाच्याः । ताश्चासत्कल्पनया षट् स्थाप्यन्ते । जघन्यवर्गणाप्रदेशाश्चासङ्ख्येयवीर्यभागान्विता अप्यसत्कल्पनया दशभागान्विताः स्थाप्यन्ते । ते च प्रदेशा एकैकस्यां वर्गणायामसङ्ख्येयप्रतरप्रदेशमाना अप्यसत्कल्पनया त्रयस्त्रयः स्थाप्यन्ते । इदमेकं वीर्यस्पर्द्धकम् । इत ऊद्धर्वमेकेन द्व्यादिभिर्वीर्यभागैरधिकास्तत्प्रदेशा न लभ्यन्ते । किं तर्हि ? असङ्ख्येयलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेषामपि समानवीर्यभागानां समुदायो द्वितीयस्पर्द्धकस्याद्या वर्गणा, तत एकेन वीर्यभागेनाधिकानां समुदायो द्वितीया वर्गणा, एवमेकोत्तरवृद्धिक्रमेणैता अपि श्रेण्यसङ्ख्येयभागवर्त्तिप्रदेशराशिमाना वाच्याः । एतासामपि समुदायो द्वितीयं १. प्रज्ञया छिद्यन्ता असङ्ख्यातलोकानां यावन्तः प्रदेशाः । तावन्तो वीर्यविभागाः जीवप्रदेश एकैकस्मिन् ॥१॥ सर्वजघन्ये वीर्ये जीवप्रदेशे एतावन्तः सङ्ख्याः । ततोऽसङ्ख्येयगुणिताः बहुवीर्ये जीवप्रदेशे ॥२॥ १५ १५ १५ १४ १४ १४ | १३ | १३ | १३ १२ १२ १२ ११ ११ ११ १० १० १० गा.-१०० ३१३

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376