Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 331
________________ बन्धशतक प्रकरणम् | सङ्क्षिप्य सत्यमनोयोगादिभेदभिन्नः पूर्वं पञ्चदशधा प्रोक्तस्तदेवमुक्तस्वरूपयोगे जघन्ये जघन्यं मध्यमे मध्यममुत्कृष्टे तुत्कृष्टं प्रदेशबन्धं जीवः करोतीति स्थितम् । 'ठिइअणुभागं कसायओ कुणइ 'त्ति स्थानं स्थितिः कर्मणोऽन्तर्मुहूर्त्तादिसप्ततिसागरोपमकोटीकोटिपर्यन्तमवस्थानमित्यर्थः । अनु पश्चाद् बन्धोत्तरकालं भजनमनुभवनं यस्यासावनुभागः, इक्षुयष्टेरिव कर्मणो रस इत्यर्थः । स्थितिश्चानुभागश्च | स्थित्यनुभागमितीहापि समाहारस्तज्जीवः कषायवशात् करोति निर्वर्त्तयतीत्यर्थः । कषायाः पूर्वोक्तशब्दार्थस्वरूपसङ्ख्यास्तज्जनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते । कषाया ह्युदीर्णा नानाजीवानां कालभेदेन एकजीवस्य वा सर्वजघन्याया अपि ज्ञानावरणादिकर्मस्थितेर्निर्वर्त्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यन्तर्मुहूत्तिकान्यध्यवसायस्थानानि जनयन्ति । समयाधिकतज्जघन्यस्थितिकानि तु त एव तेऽभ्यस्तानि विशेषाधिकानि जनयन्ति । द्विसमयाधिकतजघन्यस्थितिजनकानि पुनस्त एवानन्तरेऽभ्यस्तानि विशेषाधिकानि जनयन्ति । त्रिसमयाधिकतजघन्यस्थितिजनकानि तु त एवानन्तरेऽभ्यस्तानि विशेषाधिकानि एवं समयोत्तरवृद्धतजघन्यस्थितिजनकानि विशेषाधिकानि तावत् वाच्यानि यावत्ते एव कषायाः समयोनोत्कृष्टज्ञानावरणादिस्थितिजनकाध्यवसायस्थानेभ्यः सर्वोत्कृष्टस्थितिजनकाध्यवसायस्थानानि विशेषाधिकानि निवर्त्तयन्ति एतानि च सर्वाण्यपि मीलितान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्येव भवन्ति । अमीषां च स्थापनादिकिञ्चिद्विशेषस्वरूपं यथा "उक्कोससंकिलेसेण १. गाथा ६१ उत्तरार्द्धम् । गा.-१०० ३१५

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376