________________
बन्धशतक प्रकरणम्
| सङ्क्षिप्य सत्यमनोयोगादिभेदभिन्नः पूर्वं पञ्चदशधा प्रोक्तस्तदेवमुक्तस्वरूपयोगे जघन्ये जघन्यं मध्यमे मध्यममुत्कृष्टे तुत्कृष्टं प्रदेशबन्धं जीवः करोतीति स्थितम् ।
'ठिइअणुभागं कसायओ कुणइ 'त्ति स्थानं स्थितिः कर्मणोऽन्तर्मुहूर्त्तादिसप्ततिसागरोपमकोटीकोटिपर्यन्तमवस्थानमित्यर्थः । अनु पश्चाद् बन्धोत्तरकालं भजनमनुभवनं यस्यासावनुभागः, इक्षुयष्टेरिव कर्मणो रस इत्यर्थः । स्थितिश्चानुभागश्च | स्थित्यनुभागमितीहापि समाहारस्तज्जीवः कषायवशात् करोति निर्वर्त्तयतीत्यर्थः । कषायाः पूर्वोक्तशब्दार्थस्वरूपसङ्ख्यास्तज्जनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते । कषाया ह्युदीर्णा नानाजीवानां कालभेदेन एकजीवस्य वा सर्वजघन्याया अपि ज्ञानावरणादिकर्मस्थितेर्निर्वर्त्तकान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यन्तर्मुहूत्तिकान्यध्यवसायस्थानानि जनयन्ति । समयाधिकतज्जघन्यस्थितिकानि तु त एव तेऽभ्यस्तानि विशेषाधिकानि जनयन्ति । द्विसमयाधिकतजघन्यस्थितिजनकानि पुनस्त एवानन्तरेऽभ्यस्तानि विशेषाधिकानि जनयन्ति । त्रिसमयाधिकतजघन्यस्थितिजनकानि तु त एवानन्तरेऽभ्यस्तानि विशेषाधिकानि एवं समयोत्तरवृद्धतजघन्यस्थितिजनकानि विशेषाधिकानि तावत् वाच्यानि यावत्ते एव कषायाः समयोनोत्कृष्टज्ञानावरणादिस्थितिजनकाध्यवसायस्थानेभ्यः सर्वोत्कृष्टस्थितिजनकाध्यवसायस्थानानि विशेषाधिकानि निवर्त्तयन्ति एतानि च सर्वाण्यपि मीलितान्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्येव भवन्ति । अमीषां च स्थापनादिकिञ्चिद्विशेषस्वरूपं यथा "उक्कोससंकिलेसेण १. गाथा ६१ उत्तरार्द्धम् ।
गा.-१००
३१५