________________
A
गा.-१००
बन्धशतकप्रकरणम् ।
ईसि अहमज्झिमेणावी'ति गाथादलविवरणे पूर्वमुक्तं तथा द्रष्टव्यम् । तदेवमेतैः कषायजनिताध्यवसायस्थानैर्जन्यत्वात्कर्मणः स्थितिः कषायप्रत्ययात् सिद्धाः । तेषामेव कषायाणां सम्बन्धि यद्दलिकमुदयप्राप्तं तत्र यदनुभागस्थानकमुदेति, तेन जीवस्य योऽध्यवसायो जन्यते, यद्वशेन बध्यमानकर्मणामनुभागो निष्पद्यते । तथा ह्यनुभागस्यैकपरमाणुगतभागादिका स्पर्द्धकावसाना प्ररूपणा यथाऽनिवृत्तिबादरगुणस्थाने कृता, तथा द्रष्टव्या । तेषां चानुभागस्पर्द्धकानां सिद्धानन्तभागवर्तिनामभव्येभ्योऽनन्तगुणानां समुदाय: प्रथममनुभागस्थानकं भवति, अन्येषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण द्वितीयं तावत्प्रमाणमेवानुभागस्थानकमुत्तिष्ठति । अन्येषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण तृतीयमनुभागस्थानकमुत्तिष्ठतीत्येवं सर्वेष्वपि कषायकर्मस्कन्धेष्वसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागस्थानानि भवन्ति । ज्ञानावरणादिसमस्तकर्मस्कन्धेष्वप्येतावन्त्येवामूनि भवन्ति । परं तावदिह कषाया एव कारणत्वेन विचारयितुं प्रक्रान्ता । तत्र जघन्यानुभागस्थानानि उत्कृष्टतश्चतुर: समयान् यावदुदये समागच्छन्ति । मध्यमानि तु कानिचित् त्रीनपराणि चतुरोऽन्यानि पञ्चाऽन्यानि षडपराणि सप्ताऽन्यानि त्वष्टौ समयान् यावदुत्कृष्टत उदये समागच्छन्ति । उत्कृष्टानुभागस्थानानि तूत्कृष्टतो द्वौ समयौ यावदुदये समागच्छन्ति । ततः परं सर्वत्राऽन्यत्परावर्त्तते । जघन्यतस्तु सर्वाण्यपि समयस्थितान्येव भवन्ति, अतस्तजन्यो जघन्यमध्यमोत्कृष्टभेदभिन्नोऽध्यवसायोऽप्येतावत्कालस्थितिक एव भवति । तेन च जघन्यादिभेदेनाध्यवसायवैचित्र्येण बध्यमानकर्मानुभागो जघन्यादिभेदविचित्रो जन्यते । अतः कषायानुभागजनिताध्यवसायवैचित्र्यनिर्वय॑त्वात् कर्मणामनुभागः कषायप्रत्ययः सिद्धः । मिथ्यात्वाविरतिकारणद्वयाभावेऽपि हि
३१६
AAA