SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् कषायसद्भावे प्रमत्तादिषु स्थित्यनुभागबन्धौ भवतः कषायाभावे तूपशान्तमोहादिषु न भवत इतीहाप्यन्वयव्यतिरेकाभ्यां ज्ञायते स्थित्यनुभागबन्धयोः कषायाः प्रधानं कारणम् । अत्रोक्तमप्यर्थमनवगच्छन्नाह - ननु पूर्वं मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः उक्ताः अत्र तु प्रकृत्यादिचतूरूपस्यापि कर्मणो योगकषायरूपं कारणद्वयमेवोक्तमिति कथं न पूर्वापरविरोध: ? ननूक्तमत्र यदुतान्वयव्यतिरेकानुविधायित्वेन योगाः कषायाश्च प्रधानं कारणम्, तेषां तु योगकषायाणां सहकारिकारणत्वेन व्याप्रियमाणत्वात् मिथ्यात्वाविरत्योरन्येषां च ज्ञानावरणादिकर्मदेश क्षेत्रकालादीनां कारणत्वमनिवारितमेवातः पूर्वोक्तमपि विवक्षयाऽदुष्टमेवेत्यलं विस्तरेण । तदेवं व्याख्यातं पूर्वार्द्धम्, तद्व्याख्याने च पूर्वमनेकस्थानेष्वस्यां च गाथायामुत्तरत्र चाल्पबहुत्वचिन्तायामतिशयोपयोगित्वात् प्ररूपितानि | योगस्थानस्थितिबन्धाध्यवसायास्थानानुभागबन्धाध्यवसायस्थानानि लेशतः, विस्तारार्थिना तु कर्मप्रकृतिरन्वेषणीयेति । साम्प्रतमित्थं बद्धस्य कर्मण उदयो यथा भवति, तथा सङ्क्षेपतो दर्शयिषुराह - 'कालभव' इत्यादि । इह तावत् मूलप्रकृतयो ध्रुवोदया उत्तरप्रकृतयोऽपि ज्ञानावरणपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणमिथ्यात्वतैजसकार्मणवर्णादिचतुष्कागुरुलघुस्थिरास्थिरॐ शुभाशुभनिर्माणान्तरायपञ्चकलक्षणाः सप्तविंशतिः ध्रुवोदया एव सर्वेषां जन्तूनामुदयव्यवच्छेदादर्वागेतत् प्रकृत्युदयः कालभवादिनिरपेक्षो निरन्तरं भवत्येवेत्यर्थः । शेषाणां तु निद्रापञ्चकाद्युत्तरप्रकृतीनां कालभवक्षेत्रापेक्ष उदयः प्रवर्त्तते । तथाहि| निद्रावेदादीनां प्रायो रजन्यादिकाले उदयो भवतीति कालापेक्षत्वम् । नारकतिर्यङ्मनुष्यदेवभवैकानायोग्यानि च नरकगत्यादीनि गा.-१०० ३१७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy