________________
AT
गा.-१००
बन्धशतकप्रकरणम्
| तु तं तं भवं प्राप्योदयमागच्छन्तीति भवापेक्षित्वम् । आनुपूर्व्याधुदयश्च क्षेत्रापेक्षः पूर्ववदेवेत्यर्थः । कोऽपि निद्रोदयः कालं ग्रीष्मं,
भवं पृथिव्यादिकं, क्षेत्रं सजलादिकं, प्राप्यातिशयेन प्रवर्त्तत इति कालादित्रयापेक्षः । एवमन्यत्रापि स्वधिया भावनीयम् । उपलक्षणं चैतद्, अन्यथा द्रव्यभावाद्यपेक्षोऽपि प्रकृतीनामुदयो भवत्येव । तथाहि-स एव निद्रोदयो भक्षितमाहिषदधिवृन्ताकादिद्रव्यस्य तत्तद्रव्यमपेक्ष्य भवन् द्रव्यापेक्षश्चित्तस्वास्थ्यादिभावमपेक्ष्य भवन् भावापेक्षः । एवं स्रक्चन्दनाङ्गरागारोग्यत्वादिद्रव्यभावापेक्षः साताद्युदयोऽपि भावनीयः, तदेवं सक्षेपेणोदयः प्रोक्तः । अथवा सङ्क्षिप्ततरप्रकारेण द्विविध उदयः, सविपाकोऽविपाकश्च । यत्र स्वस्वभावव्यस्थितं स्वरूपेणैव वर्णादि इत्यसौ सविपाकोदयो, यथा मनुष्यस्य मनुष्यगतिपञ्चेन्द्रियजात्यादितद्भवप्रायोग्यकर्मोदयः । यत्र तु प्रायो निरसीकृतं स्तिबुकसङ्क्रमसङ्क्रान्तं परप्रकृतिभावेन कर्म वेद्यते, सोऽविपाकोदयो, यथा तस्यैव मनुष्यस्य मनुष्यगतिभावेन वेद्यमानानां नरकतिर्यग्देवगतीनामुदयः । तस्मात् स्वरूपेण पररूपेण वा वेदितमेव कर्म क्षीयते नान्यथेति गाथार्थः ॥१०॥ भा० जोगागाहा जोगो हेऊ पयडीण तह पएसाणं । जं भणियं तहि मिच्छाविइकसाया वि हेउ त्ति ॥९९०॥
जइवि हु सामन्नेणं भणिया उ तहावि तेसि विरहे वि । उवसंताइगुणेसुं केवलजोगस्स भावे वि ॥९९१॥ वेयणियकम्मपगई तस्स पसाया य जेण बझंते । चउदसमगुणे जोगाभावे पुण नेव बझंति ॥९९२॥ इय अन्नयवइरेगाओ पयडीणं पएसाणं । बंधस्स जोग एव हि पमुहं किर कारणं होई ॥९९३॥
३१८