Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
बन्धशतक प्रकरणम्
कषायसद्भावे प्रमत्तादिषु स्थित्यनुभागबन्धौ भवतः कषायाभावे तूपशान्तमोहादिषु न भवत इतीहाप्यन्वयव्यतिरेकाभ्यां ज्ञायते स्थित्यनुभागबन्धयोः कषायाः प्रधानं कारणम् ।
अत्रोक्तमप्यर्थमनवगच्छन्नाह - ननु पूर्वं मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः उक्ताः अत्र तु प्रकृत्यादिचतूरूपस्यापि कर्मणो योगकषायरूपं कारणद्वयमेवोक्तमिति कथं न पूर्वापरविरोध: ? ननूक्तमत्र यदुतान्वयव्यतिरेकानुविधायित्वेन योगाः कषायाश्च प्रधानं कारणम्, तेषां तु योगकषायाणां सहकारिकारणत्वेन व्याप्रियमाणत्वात् मिथ्यात्वाविरत्योरन्येषां च ज्ञानावरणादिकर्मदेश क्षेत्रकालादीनां कारणत्वमनिवारितमेवातः पूर्वोक्तमपि विवक्षयाऽदुष्टमेवेत्यलं विस्तरेण । तदेवं व्याख्यातं पूर्वार्द्धम्, तद्व्याख्याने च पूर्वमनेकस्थानेष्वस्यां च गाथायामुत्तरत्र चाल्पबहुत्वचिन्तायामतिशयोपयोगित्वात् प्ररूपितानि | योगस्थानस्थितिबन्धाध्यवसायास्थानानुभागबन्धाध्यवसायस्थानानि लेशतः, विस्तारार्थिना तु कर्मप्रकृतिरन्वेषणीयेति ।
साम्प्रतमित्थं बद्धस्य कर्मण उदयो यथा भवति, तथा सङ्क्षेपतो दर्शयिषुराह - 'कालभव' इत्यादि । इह तावत् मूलप्रकृतयो ध्रुवोदया उत्तरप्रकृतयोऽपि ज्ञानावरणपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणमिथ्यात्वतैजसकार्मणवर्णादिचतुष्कागुरुलघुस्थिरास्थिरॐ शुभाशुभनिर्माणान्तरायपञ्चकलक्षणाः सप्तविंशतिः ध्रुवोदया एव सर्वेषां जन्तूनामुदयव्यवच्छेदादर्वागेतत् प्रकृत्युदयः कालभवादिनिरपेक्षो निरन्तरं भवत्येवेत्यर्थः । शेषाणां तु निद्रापञ्चकाद्युत्तरप्रकृतीनां कालभवक्षेत्रापेक्ष उदयः प्रवर्त्तते । तथाहि| निद्रावेदादीनां प्रायो रजन्यादिकाले उदयो भवतीति कालापेक्षत्वम् । नारकतिर्यङ्मनुष्यदेवभवैकानायोग्यानि च नरकगत्यादीनि
गा.-१००
३१७

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376