Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 330
________________ गा.-१०० बन्धशतकप्रकरणम् वीर्यस्पर्द्धकम् । इत ऊर्ध्वं पुनरप्येकोत्तरवृद्धिर्न लभ्यते, किं तर्हि ? असङ्ख्येयलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेनैव क्रमेण तृतीयं स्पर्द्धकमारभ्यते । पुनस्तेनैव क्रमेण चतुर्थं पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्द्धकानि श्रेण्यसङ्ख्येयभागवर्तिप्रदेशमानानि वाच्यानि । एतेषां च [एतावतां] स्पर्धकानां समुदाय एकं योगस्थानकमुच्यते । इदं तावदेकस्य सूक्ष्मनिगोदस्य भवाद्यसमये सर्वजघन्यवीर्यस्य योगस्थानकमभिहितम् । तदन्यस्य तु किञ्चिदधिकवीर्यस्य जन्तोरनेनैव क्रमेण द्वितीयं योगस्थानकमुत्तिष्ठति । तदन्यस्य तु तेनैव क्रमेण तृतीयम् । तदन्यस्य चतुर्थमित्यमुना क्रमेणैतान्यपि योगस्थानानि नानाजीवानां । कालभेदेनैकैकजीवस्य वा श्रेणेरसङ्ख्येयभागवर्तिप्रदेशराशिमानानि भवन्ति । ननु जीवानामनन्तत्वात्तद्भेदात् योगस्थानान्यनन्तानि कस्मात् न भवन्ति ? नैतदेवम्, यत एकैकस्मिन् सदृशे योगस्थाने | अनन्ताः स्थावरजीवा वर्तन्ते, त्रसास्त्वेकैकस्मिन् सदृशे योगस्थाने असङ्ख्याता वर्तन्ते, तेषां चैकैकमेव विवक्षितमतो विसदृशानि यथोक्तमानान्येव योगस्थानानि भवन्ति । तत्र पर्याप्ताः सर्वेऽपि स्वप्रायोग्ये सर्वजघन्ययोगस्थाने तु जघन्यतः समयमुत्कृष्टतश्चतुर: समयान् यावद् वर्त्तन्ते । ततः परमन्ययोगस्थानमुपजायते । स्वप्रायोग्ये सर्वजघन्ययोगस्थाने तु जघन्यतः समयमुत्कृष्टतस्तु द्वौ समयौ, मध्यमेषु तु जघन्यतः समयमुत्कृष्टतस्तु क्वचित् त्रीन्, क्वचिच्चतुरः, क्वचित्पञ्च, क्वचित् षट्, क्वचित्सप्त, क्वचित् त्वष्टौ समयान् या वद्वर्त्तन्ते । अपर्याप्तास्तु सर्वेऽप्येकस्मिन् योगस्थाने एकमेव समयमवतिष्ठन्ते । ततः परमसङ्ख्येयगुणवृद्धेषु प्रतिसमयमन्यान्ययोगस्थानेषु सङ्कामन्ति । अयं चैतावानपि योगो मन:प्रभृतिसहकारिकारणवशात् ३१४

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376