Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 299
________________ बन्धशतक प्रकरणम् | तस्येहाग्रहणम् । सास्वादनमिश्रयोस्तु लभ्यते मिथ्यात्वभागः, केवलं वक्ष्यमाणनीत्या तयोरुत्कृष्टयोगो न लभ्यत इति तावपि नेहाधिकृतौ । अपूर्वकरणोपरिवर्तिनस्तु भयजुगुप्से न बध्नन्तीत्यपूर्वकरणान्तविशेषणम् । सञ्चलनक्रोधस्यानिवृत्तिबादरः पुंवेदबन्धव्यवच्छिन्ने सञ्चलनक्रोधादिचतुष्टयं बध्नन्नुत्कृष्टयोगे स्थित उत्कृष्टं प्रदेशबन्धं करोति, मिथ्यात्वाद्यकषायद्वादशभागः सर्वनोकषायभागश्च लभ्यत इति कृत्वा । मानसज्वलनस्य स एव सञ्चलनकोधबन्धे व्यवच्छिन्ने मानादिसञ्ज्वलनत्रयं बध्नन्नुत्कृष्टं करोति, क्रोधभागो लभ्यत इति कृत्वा । स एव मानबन्धे व्यवच्छिन्ने मायालोभौ बध्नन्मायाया उत्कृष्टं करोति, मानभागोऽपि लभ्यत इति कृत्वा । स एव मायाबन्धे व्यवच्छिन्ने लोभमेकं बध्नंस्तस्यैवोत्कृष्टं करोति एकं द्वौ वा समयौ । एतच्च विशेषणं प्रागपि द्रष्टव्यम् । समस्तमोहनीयभागस्त्वत्र लभ्यत इति लोभबन्धकस्यैव ग्रहणम् । तदेवमविरतसम्यग्दृष्ट्यादिस्थानेष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टः प्रदेशबन्धो दर्शितः । एते चाविरतादयस्तत्तत्प्रकृतीनां बन्धव्यवच्छेदा| दुत्कृष्टयोगाद्वा प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं कुर्वन्ति तदाऽसौ सादिः, तत्स्थानमप्राप्तपूर्वाणामनादिध्रुवाध्रुवौ पूर्ववत् । तदेवं त्रिंशतः प्रकृतीनामनुत्कृष्टः प्रदेशबन्धः साद्यादिश्चतुर्विकल्पोऽपि भावितः । शेषे जघन्यादौ प्राह - 'सेसति दुविगप्पोति भणितशेषेऽनुत्कृष्टजघन्याजघन्यप्रदेशबन्धलक्षणे त्रिके द्विविकल्पः । साद्यध्रुवलक्षणो बन्धो भवतीत्यर्थः, तत्रानुत्कृष्टभणनक्रमेणोत्कृष्टबन्धस्त्रिशतोऽपि प्रकृतीनां सूक्ष्मसम्परायादिषु दर्शितः । स च तत्प्रथमतया बध्यमानत्वात् सादिः । सर्वथा बन्धाभावेऽनुत्कृष्टबन्धसम्भवे चाऽवश्यं न भवतीत्यध्रुवः । जघन्याजघन्यप्रदेशबन्धौ त्वासां त्रिंशतोऽपि प्रकृतीनां यथासूक्ष्म गा.-९३ २८३

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376