________________
बन्धशतक प्रकरणम्
| तस्येहाग्रहणम् । सास्वादनमिश्रयोस्तु लभ्यते मिथ्यात्वभागः, केवलं वक्ष्यमाणनीत्या तयोरुत्कृष्टयोगो न लभ्यत इति तावपि नेहाधिकृतौ । अपूर्वकरणोपरिवर्तिनस्तु भयजुगुप्से न बध्नन्तीत्यपूर्वकरणान्तविशेषणम् । सञ्चलनक्रोधस्यानिवृत्तिबादरः पुंवेदबन्धव्यवच्छिन्ने सञ्चलनक्रोधादिचतुष्टयं बध्नन्नुत्कृष्टयोगे स्थित उत्कृष्टं प्रदेशबन्धं करोति, मिथ्यात्वाद्यकषायद्वादशभागः सर्वनोकषायभागश्च लभ्यत इति कृत्वा । मानसज्वलनस्य स एव सञ्चलनकोधबन्धे व्यवच्छिन्ने मानादिसञ्ज्वलनत्रयं बध्नन्नुत्कृष्टं करोति, क्रोधभागो लभ्यत इति कृत्वा । स एव मानबन्धे व्यवच्छिन्ने मायालोभौ बध्नन्मायाया उत्कृष्टं करोति, मानभागोऽपि लभ्यत इति कृत्वा । स एव मायाबन्धे व्यवच्छिन्ने लोभमेकं बध्नंस्तस्यैवोत्कृष्टं करोति एकं द्वौ वा समयौ । एतच्च विशेषणं प्रागपि द्रष्टव्यम् । समस्तमोहनीयभागस्त्वत्र लभ्यत इति लोभबन्धकस्यैव ग्रहणम् । तदेवमविरतसम्यग्दृष्ट्यादिस्थानेष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टः प्रदेशबन्धो दर्शितः । एते चाविरतादयस्तत्तत्प्रकृतीनां बन्धव्यवच्छेदा| दुत्कृष्टयोगाद्वा प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं कुर्वन्ति तदाऽसौ सादिः, तत्स्थानमप्राप्तपूर्वाणामनादिध्रुवाध्रुवौ पूर्ववत् । तदेवं त्रिंशतः प्रकृतीनामनुत्कृष्टः प्रदेशबन्धः साद्यादिश्चतुर्विकल्पोऽपि भावितः । शेषे जघन्यादौ प्राह - 'सेसति दुविगप्पोति भणितशेषेऽनुत्कृष्टजघन्याजघन्यप्रदेशबन्धलक्षणे त्रिके द्विविकल्पः । साद्यध्रुवलक्षणो बन्धो भवतीत्यर्थः, तत्रानुत्कृष्टभणनक्रमेणोत्कृष्टबन्धस्त्रिशतोऽपि प्रकृतीनां सूक्ष्मसम्परायादिषु दर्शितः । स च तत्प्रथमतया बध्यमानत्वात् सादिः । सर्वथा बन्धाभावेऽनुत्कृष्टबन्धसम्भवे चाऽवश्यं न भवतीत्यध्रुवः । जघन्याजघन्यप्रदेशबन्धौ त्वासां त्रिंशतोऽपि प्रकृतीनां यथासूक्ष्म
गा.-९३
२८३