________________
गा.-९३
बन्धशतकप्रकरणम् |
तत्र मोहनीयायुर्भागलाभाधिक्यमेवोक्तमत्र तु निद्रापञ्चकभागलाभाधिक्यमपि वाच्यम् । निद्राद्विकस्य त्वविरतसम्यग्दृष्ट्यादयो अपूर्वकरणान्ताः सर्वोत्कृष्टयोगवृत्तयः सप्तविधबन्धकाले एकं द्वौ वा समयावुत्कृष्ट प्रदेशबन्धं कुर्वन्ति । आयुर्द्रव्यभागोऽधिको लभ्यत इति सप्तविधबन्धकग्रहणम्, स्त्यानद्धित्रिकं सम्यग्दृष्टयो न बध्नन्ति, अतस्तद्भागलाभोऽपि भवतीति सम्यग्दृष्टीनामेव ग्रहणम्, मिथ्यादृष्टिसास्वादनौ स्त्यानद्धित्रिकं बनीत इति नेह गृहीतौ, मिश्रस्त्वेतन्न बध्नाति, केवलं वक्ष्यमाणनीत्या तस्योत्कृष्टयोगो न लभ्यत इति सोऽपि नेहाधिकृतः । एते चाविरतसम्यग्दृष्ट्यादयो यदोत्कृष्टयोगाद्बन्धव्यवच्छेदाद्वा प्रतिपत्यानुत्कृष्टं प्रदेशबन्धमुपकल्पयन्ति, तदाऽसौ सादिः । सम्यक्त्वसहितं चोत्कृष्टयोगमप्राप्तपूर्वाणामनादिः ध्रुवाध्रुवौ तथैव । अप्रत्याख्यानावरणकषायचतुष्टस्योत्कृष्टयोगोऽविरतसम्यग्दृष्टिः सप्तविधबन्धक उत्कृष्टं प्रदेशबन्धं करोति । मिथ्यात्वमनन्तानुबन्धिनश्चासौ न बध्नाति अतस्तद्भागद्रव्यमधिकं लभ्यत इत्यस्यैव ग्रहणम् । मिथ्यादृष्टिमिथ्यात्वमनन्तानुबन्धिनश्च, सास्वादनस्त्वनन्तानुबन्धिनो बनातीति तयोरग्रहणम्, मिश्रास्त्वेतानि न बध्नाति, किन्तु तद्ग्रहणे कारणं पूर्वोक्तम् । देशविरतादयस्त्वप्रत्याख्यानावरणान्न बध्नातीति शेषव्युदासेनाविरतसम्यग्दृष्टिरेवाधिकृतः । प्रत्याख्यानावरणचतुष्टयस्योत्कृष्टयोगो देशविरतः सप्तविधबन्धक उत्कृष्टप्रदेशबन्धं करोति, अप्रत्याख्यानावरणानामप्यसावबन्धकोऽतस्तद्भागोऽधिको लभ्यत इति कृत्वा । भयजुगुप्सयोः सम्यग्दृष्टिरविरतादिरपूर्वकरणान्त उत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धं करोति । मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् । कषायभागः पुनः सजातीयत्वात्कषायाणामेव भवति, नैतयोः । मिथ्यादृष्टिस्तु मिथ्यात्वं बध्नातीति मिथ्यात्वभागी न लभ्यत इति
२८२
AA