________________
बन्धशतक प्रकरणम्
निगोदादिषु संसरतामसुमतां ज्ञानावरणादिमूलप्रकृतीनां साद्यध्रुवौ भावितौ तथाऽत्रापि भावनीयौ । 'सेसासुं चउविगप्पो वित्ति भणितत्रिंशतः शेषासु स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिचतुष्टयवर्णादिचतुष्कतैजसकार्मणागुरुलघूपघातनिर्माणलक्षणासु सप्तदशसु ध्रुवबन्धिनीषु, पूर्वोक्तरूपासु च त्रिसप्तत्यध्रुवबन्धिनीषूत्कृष्टानुत्कृष्टजघन्याजघन्यलक्षणश्चतुर्विकल्पोऽपि प्रदेशबन्ध | 'दुविगप्पो' त्ती इत्येतदत्रापि सम्बध्यते, द्विविकल्पः सादिरध्रुवश्च भवति । तथा ह्यध्रुवबन्धिनीनामध्रुवबन्धित्वादेवोत्कृष्टादिरूपस्तत्प्रदेशबन्धः सर्वोऽपि साद्यध्रुव एव भवति । स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिनां सप्तविधबन्धक उत्कृष्टयोगे वर्त्तमानो मिथ्यादृष्टिरुत्कृष्टं प्रदेशबन्धमेकं द्वौ वा समयौ यावत्करोति सम्यग्दृष्टिरेता न बध्नातीति मिथ्यादृष्टिग्रहणम् । मिथ्यात्ववर्जान्येतानि | सास्वादनोऽपि बध्नाति परं वक्ष्यमाणनीत्योत्कृष्टयोगो न लभ्यत इति तस्याग्रहणम् । उत्कृष्टयोगस्यैतावानेव काल इत्येकद्विसमयनियमः । उत्कृष्टयोगात् प्रतिपत्य स एवानुत्कृष्टप्रदेशबन्धं करोति, पुनः स एवोत्कृष्टं पुनरनुकृष्टमित्येवं द्वावप्येतौ | साद्यध्रुवौ । जघन्यप्रदेशबन्धं पुनरेतासां सर्वजघन्यवीर्यलब्धिर्भवाद्यसमये वर्त्तमानः सप्तविधं बध्नन्नपर्याप्तसूक्ष्मनिगोदः करोति । द्वितीयादिसमयेषु च स एवाजघन्यं करोति, कालान्तरेण पुनः स एव जघन्यमित्येतावपि द्वौ साद्यध्रुवौ भवतः । विशेषणसाफल्यादिभावना त्वत्र मूलप्रकृतिवद्वाच्याः । शेषवर्णादिप्रकृतिनवकस्याप्युत्कृष्टानुत्कृष्टौ जघन्याजघन्यौ च प्रदेशबन्धौ साद्यध्रुवौ एवमेव वाच्यौ । नवरमुत्कृष्टयोगो मूलप्रकृतिसप्तकबन्धको नाम्नस्त्रयोविंशतिमुत्तरप्रकृतीर्बध्नन् मिथ्यादृष्टिरुत्कृष्टप्रदेशबन्धको वाच्यः, शेषं तथैव । नाम्नो हि पञ्चविंशत्यादिबन्धग्रहणम् बहवो भागा भवन्तीति त्रयोविंशतिबन्धग्रहणमिति
गा.-९३
२८४