Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 315
________________ बन्धशतक नाराचवर्जा नवनामप्रकृतयो नाम्नोऽष्टाविंशतिबन्धकाल एव बन्धमागच्छन्ति, नाधस्तनेषु पूर्वोक्तरूपेषु त्रयोविंशतिपञ्चविंशतिप्रकरणम् षड्विंशतिबन्धेषु । तां चाष्टाविंशति देवगतिप्रायोग्यां सम्यग्दृष्टिर्मिथ्यादृष्टिश्च बध्नाति एतावत्यो देवगतिप्रायोग्याष्टाविंशतिबन्ध सहचरिता एता नव प्रकृतीनिर्वर्त्तयन्तौ सप्तविधबन्धकौ द्वावप्युत्कृष्टयोगावविशेषेणोत्कृष्टप्रदेशा विधत्तः । केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इत्यष्टाविंशतिसहचारित्वेन ग्रहणम् । वज्रर्षभनाराचस्यापि सम्यग्दृष्टिमिथ्यादृष्टिर्वा . सप्तविधबन्धको नाम्नो वज्रर्षभनाराचसहितामेकोनत्रिंशतं निर्वर्त्तयन्नुत्कृष्टयोगेन उत्कृष्टप्रदेशबन्धं करोति । एकोनत्रिंशतो ऽधस्तनबन्धेष्विदं न बध्यते । त्रिंशद्बन्धे तु बध्यते, केवलं भागबाहुल्यात् तत्रोत्कृष्टयोगेन तत्रोत्कृष्टप्रदेशबन्धो न लभ्यत | इत्येकोनत्रिंशद्बन्धस्यैव ग्रहणमिति सम्यग्दृष्टिमिथ्यादृष्ट्योरविरोधेन भावितस्त्रयोदशानामपि प्रकृतीनामुत्कृष्टः प्रदेशबन्धः । 'आहारमप्पमत्तो 'ति अप्रमत्तग्रहणेनाप्रमत्तयतिरपूर्वकरणश्च गृह्यते, द्वयोरपि प्रमादरहितत्वाविशेषात् । ततश्चैतौ द्वावपि | देवद्विकपञ्चेन्द्रियजातिवैक्रियद्विकसमचतुरस्रपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरादेययशः कीर्तिरित्येता एकोनविंशतिर्वर्णादिचतुष्कतैजसकार्मणागुरुलघूपघातनिर्माणमित्येता नाम्नो नव ध्रुवबन्धिन्य आहारकद्विकं | चेत्येतद्देवगतिप्रायोग्यं त्रिंशन्नामोत्तरप्रकृतिकदम्बकं बध्नन्तौ उत्कृष्टयोगे स्थितौ आहारकद्विकमुत्कृष्टप्रदेशं बध्नीतः । | तीर्थकरनामसहिते एकत्रिंशद्बन्धेऽप्येतद् बध्यते, किन्तु तत्र भागबाहुल्यान्न गृह्यते । 'सेसपएसुक्कडं मिच्छो'त्ति भणितचतुः ॐ पञ्चाशत्प्रकृतिभ्यः शेषाणां स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिचतुष्टयस्त्रीनपुंसकवेदनारकतिर्यगायुष्कनरकद्विकतिर्यग्विकमनुष्य गा.-९७ २९९

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376