________________
बन्धशतक
नाराचवर्जा नवनामप्रकृतयो नाम्नोऽष्टाविंशतिबन्धकाल एव बन्धमागच्छन्ति, नाधस्तनेषु पूर्वोक्तरूपेषु त्रयोविंशतिपञ्चविंशतिप्रकरणम् षड्विंशतिबन्धेषु । तां चाष्टाविंशति देवगतिप्रायोग्यां सम्यग्दृष्टिर्मिथ्यादृष्टिश्च बध्नाति एतावत्यो देवगतिप्रायोग्याष्टाविंशतिबन्ध
सहचरिता एता नव प्रकृतीनिर्वर्त्तयन्तौ सप्तविधबन्धकौ द्वावप्युत्कृष्टयोगावविशेषेणोत्कृष्टप्रदेशा विधत्तः । केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इत्यष्टाविंशतिसहचारित्वेन ग्रहणम् । वज्रर्षभनाराचस्यापि सम्यग्दृष्टिमिथ्यादृष्टिर्वा . सप्तविधबन्धको नाम्नो वज्रर्षभनाराचसहितामेकोनत्रिंशतं निर्वर्त्तयन्नुत्कृष्टयोगेन उत्कृष्टप्रदेशबन्धं करोति । एकोनत्रिंशतो ऽधस्तनबन्धेष्विदं न बध्यते । त्रिंशद्बन्धे तु बध्यते, केवलं भागबाहुल्यात् तत्रोत्कृष्टयोगेन तत्रोत्कृष्टप्रदेशबन्धो न लभ्यत | इत्येकोनत्रिंशद्बन्धस्यैव ग्रहणमिति सम्यग्दृष्टिमिथ्यादृष्ट्योरविरोधेन भावितस्त्रयोदशानामपि प्रकृतीनामुत्कृष्टः प्रदेशबन्धः । 'आहारमप्पमत्तो 'ति अप्रमत्तग्रहणेनाप्रमत्तयतिरपूर्वकरणश्च गृह्यते, द्वयोरपि प्रमादरहितत्वाविशेषात् । ततश्चैतौ द्वावपि | देवद्विकपञ्चेन्द्रियजातिवैक्रियद्विकसमचतुरस्रपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरादेययशः कीर्तिरित्येता एकोनविंशतिर्वर्णादिचतुष्कतैजसकार्मणागुरुलघूपघातनिर्माणमित्येता नाम्नो नव ध्रुवबन्धिन्य आहारकद्विकं | चेत्येतद्देवगतिप्रायोग्यं त्रिंशन्नामोत्तरप्रकृतिकदम्बकं बध्नन्तौ उत्कृष्टयोगे स्थितौ आहारकद्विकमुत्कृष्टप्रदेशं बध्नीतः । | तीर्थकरनामसहिते एकत्रिंशद्बन्धेऽप्येतद् बध्यते, किन्तु तत्र भागबाहुल्यान्न गृह्यते । 'सेसपएसुक्कडं मिच्छो'त्ति भणितचतुः ॐ पञ्चाशत्प्रकृतिभ्यः शेषाणां स्त्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिचतुष्टयस्त्रीनपुंसकवेदनारकतिर्यगायुष्कनरकद्विकतिर्यग्विकमनुष्य
गा.-९७
२९९