Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 311
________________ बन्धशतक प्रकरणम् उक्कियरभेयाण सामिणो अह कमेण पभणेइ । तदेवं मूलप्रकृतीनामुत्कृष्टकस्य जघन्यस्य च प्रदेशबन्धस्वामिन उक्ताः । इदानीमुत्तरप्रकृतीनां तस्य तानभिधित्सुराह सत्तर सुहुमसरागो पंचगमनियट्टि संमगो नवगं । अजई बीयकसाए देसजई तइयए जयइ ॥ ९६॥ ज्ञानावरणपञ्चकदर्शनावरणचतुष्कसातवेदनीययशः कीर्त्यच्चैर्गोत्रान्तरायपञ्चकलक्षणानां सप्तदशप्रकृतीनां सूक्ष्मसम्पराय उत्कृष्टयोगे वर्त्तमान उत्कृष्टप्रदेशबन्धं करोति । मोहायुषी असौ न बध्नातीत्यत्र तद्भागो लभ्यते । अपरं च दर्शनावरणभागो नामभागश्च सर्वोऽपीह यथासङ्ख्यं दर्शनावरणचतुष्टयस्य यशः कीर्तेश्चैकस्या भवतीति सूक्ष्मसम्परायस्यैव ग्रहणम् । 'पंचगमनियट्टित्ति पुरुषवेदसञ्ज्वलनचतुष्टयलक्षणप्रकृतिपञ्चकस्य सर्वोत्कृष्टयोगोऽनिवृत्तिबादर उत्कृष्टप्रदेशं बध्नाति । तत्र पुरुषवेदस्य पुंवेदसञ्ज्वलनचतुष्टयात्मकं पञ्चविधं बध्नन्नसावुत्कृष्टं प्रदेशबन्धं करोति । हास्यरतिभयजुगुप्साभागो लभ्यत इत्यस्यैव ग्रहणम् । सञ्ज्वलनचतुष्टयस्य तु यथा साद्यादिप्ररूपणायां त्रिंशत्प्रकृतिभावनाप्रक्रमे भावना कृता, तथैव द्रष्टव्या । 'सम्मगो नवगं ति सम्यग्गच्छति ज्ञानादिमोक्षमार्गम् इति सम्यग्गः सम्यग्दृष्टिरुत्कृष्टयोगे वर्त्तमानो निद्राद्विकहास्यरत्यरतिशोकभयजुगुप्सातीर्थकरनामलक्षणं प्रकृतिनवकमुत्कृष्टप्रदेशं बध्नन्ति । तत्र निद्राद्विकभावना यथा त्रिंशत्प्रकृतिमध्ये साद्यादिप्ररूपणायां कृता, तथाऽत्रापि गा.-९६ २९५

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376