________________
बन्धशतक प्रकरणम्
उक्कियरभेयाण सामिणो अह कमेण पभणेइ ।
तदेवं मूलप्रकृतीनामुत्कृष्टकस्य जघन्यस्य च प्रदेशबन्धस्वामिन उक्ताः । इदानीमुत्तरप्रकृतीनां तस्य तानभिधित्सुराह
सत्तर सुहुमसरागो पंचगमनियट्टि संमगो नवगं । अजई बीयकसाए देसजई तइयए जयइ ॥ ९६॥
ज्ञानावरणपञ्चकदर्शनावरणचतुष्कसातवेदनीययशः कीर्त्यच्चैर्गोत्रान्तरायपञ्चकलक्षणानां सप्तदशप्रकृतीनां सूक्ष्मसम्पराय उत्कृष्टयोगे वर्त्तमान उत्कृष्टप्रदेशबन्धं करोति । मोहायुषी असौ न बध्नातीत्यत्र तद्भागो लभ्यते । अपरं च दर्शनावरणभागो नामभागश्च सर्वोऽपीह यथासङ्ख्यं दर्शनावरणचतुष्टयस्य यशः कीर्तेश्चैकस्या भवतीति सूक्ष्मसम्परायस्यैव ग्रहणम् । 'पंचगमनियट्टित्ति पुरुषवेदसञ्ज्वलनचतुष्टयलक्षणप्रकृतिपञ्चकस्य सर्वोत्कृष्टयोगोऽनिवृत्तिबादर उत्कृष्टप्रदेशं बध्नाति । तत्र पुरुषवेदस्य पुंवेदसञ्ज्वलनचतुष्टयात्मकं पञ्चविधं बध्नन्नसावुत्कृष्टं प्रदेशबन्धं करोति । हास्यरतिभयजुगुप्साभागो लभ्यत इत्यस्यैव ग्रहणम् । सञ्ज्वलनचतुष्टयस्य तु यथा साद्यादिप्ररूपणायां त्रिंशत्प्रकृतिभावनाप्रक्रमे भावना कृता, तथैव द्रष्टव्या । 'सम्मगो नवगं ति सम्यग्गच्छति ज्ञानादिमोक्षमार्गम् इति सम्यग्गः सम्यग्दृष्टिरुत्कृष्टयोगे वर्त्तमानो निद्राद्विकहास्यरत्यरतिशोकभयजुगुप्सातीर्थकरनामलक्षणं प्रकृतिनवकमुत्कृष्टप्रदेशं बध्नन्ति । तत्र निद्राद्विकभावना यथा त्रिंशत्प्रकृतिमध्ये साद्यादिप्ररूपणायां कृता, तथाऽत्रापि
गा.-९६
२९५