SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ गा.-९५ बन्धशतकप्रकरणम् सुहुमनिगोयापज्जत्तगस्स पढमे जहन्नए जोगे । सत्तण्हं तु जहन्ना आउगबंधे वि आउस्स ॥१५॥ सूक्ष्मनिगोदस्यापर्याप्तकस्य भवप्रथमसमये सर्वजघन्ययोगे च वर्तमानस्यायुर्वर्जसप्तकर्मणामेकं समयं जघन्यप्रदेशबन्धो भवति । विशेषणसाफल्यं पूर्ववद्वाच्यम् । 'आउगबंधे वि आउस्स'त्ति अपिशब्दो भिन्नक्रमे, आयुषोऽपि जघन्यः प्रदेशबन्धोऽस्यैव भवति । कदेत्याह-आयुर्बन्धकाले, एतदुक्तं भवति-अयमेव सूक्ष्मापर्याप्तकनिगोदः सनिजायुषो भागद्वयमतिवाह्य अवशिष्टत्रिभागस्याद्यसमये आयुःसहितमष्टविधं बध्नन्नायुषो जघन्यप्रदेशबन्धं करोति । स्वायुषः प्रथमभागद्वये जीवा आयुरेव न बध्नन्तीति तद्वर्जनम् । अवशिष्टत्रिभागस्यापि द्वितीयादिसमयेष्वसङ्ख्येयगुणवृद्धेन वीर्येणापर्याप्तकास्सर्वेऽपि वर्द्धन्त इत्याद्यसमयग्रहणमिति गाथार्थः ॥१५॥ भा० सुहुमगाहाए सव्वं सुगमं नवरं तु सुहुमनिगोओ । अप्पज्जत्तजिओ नियआउगस्स भागदुगेव गए ॥८८४॥ तइयभागस्स पढमे समयम्मि आउसहियमट्ठविहं । बंधं बंधंतो आउगस्स जहन्नं कुणइ बंधं ॥८८५॥ सत्तन्हं पुण पढमे जं भणियं तं भवस्स पढमम्मि । समए एक्कं समयं जहन्नबंधं कुणइ जीवो ॥८८६॥ उक्किद्वेयरजहन्नपएसबंधस्स सामिणो भणिया । मूलप्पयडीणं अह उत्तर पयडीण संबंधे ॥८८७॥ २९४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy