________________
बन्धशतक
गा.-९६
प्रकरणम्
सर्वा कार्या । हास्यादिषट्कस्य तु ये ये सम्यग्दृष्टयोऽविरताद्यपूर्वकरणान्तानां मध्ये तद्बन्धकास्ते ते उत्कृष्टयोगे वर्तमाना उत्कृष्टं प्रदेशबन्धमभिनिवर्त्तयन्ति । मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् । तीर्थकरनाम्नोऽप्यविरताद्यपूर्वकरणान्तः सम्यग्दृष्टिमूलप्रकृतिसप्तविधबन्धको, नाम्नस्तु भूयस्कारादिचिन्तावसरे दर्शितस्वरूपां देवगतिप्रायोग्यां तीर्थंकरनामसहितामेकोनत्रिंशतमुत्तरप्रकृतीर्बन्धन्नुत्कृष्टयोगे वर्तमान उत्कृष्टं प्रदेशबन्धं करोति । मिथ्यादृष्टिरेतन्न बध्नातीति सम्यग्दृष्टिग्रहणम् । तीर्थकरनामसहिताश्च त्रयोविंशत्यादिकाः पूर्वोक्तरूपा नाम्न उत्तरप्रकृतयो न बध्यन्ते । त्रिंशदेकत्रिंशबन्धौ तु पूर्वोक्तनीत्या तीर्थकरनामसहितौ बध्येते, केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इति शेषपरिहारेणैकोनत्रिंशत्प्रकृतिबन्धग्रहणम् । 'अजई बीयकसाए' इत्यादि, अयति:-अविरतसम्यग्दृष्टिद्वितीयानप्रत्याख्यानावरणकषायान्, देशयति: देशविरतिस्तृतीयान् प्रत्याख्यानावरणकषायान्, यतते अनेकार्थत्वाद् बध्नात्युत्कृष्टप्रदेशानिति प्रक्रमाद् गम्यते । भावार्थस्त्विह सर्वोऽपि यथा साद्यादिप्ररूपणायां त्रिंशत्प्रकृतिमध्ये प्रोक्तस्तथा वाच्य इति गाथार्थः ॥१६॥ भा० सत्तरसमाइयाहिं गाहाहिं चउहि संखेवा ॥८८८॥
विग्धं नाणावरणं पणगं दंसणचउक्क सा उच्च । जसकीत्ति सत्तरसणं सुहुमो उक्किट्ठजोगे य ।।८८९॥ वटुंतो उक्कोसं पएसबंधं करेइ मोहाउं । नो बंधड़ तो तेसिं णं लब्भइ तह य सेसस्स ॥८९०॥ अब्बज्झमाणदंसणपणगस्स भागो उ दंसणचउक्के । सेसनामस्स भागो जसकित्तीए हवइ अहिगो ॥८९१॥
२९६