Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 291
________________ गा.-९० बन्धशतकप्रकरणम् | बध्यमानप्रकृतेः सर्वं भवति । मोहनीयस्य मिथ्यात्वं द्वादश कषायाश्चाद्याः सर्वघातिनश्चत्वारः सञ्चलना नव नोकषायाश्च | देशघातिन इत्येताः षड्विंशतिरुत्तरप्रकृतयो बध्यन्ते । तत्र मोहनीयभागे यद् द्रव्यमागच्छति तन्मध्येऽपि सर्वघातिरसयुक्तं द्रव्यं । शेषस्यानन्तभाग एव लभ्यते । तन्मध्यादर्शनमोहलक्षणस्य मिथ्यात्वस्यैको भागो भवति, द्वितीयस्तु चारित्रमोहस्य, स पुनराद्यकषायद्वादशकस्यैव द्वादशभिः भागैः परिणमति । शेषं तु देशघातिद्रव्यं द्विधा परिणमति, कषायरूपतया, नोकषायरूपतया च । कषायरूपतया यत्परिणतं तत्पुनरपि सञ्चलनचतुष्टयभेदाच्चतुर्द्धा परिणमति । नोकषायस्त्वेकस्मिन् काले पञ्चैव बध्यन्ते । तद्यथा-वेदत्रयमध्यादेको वेदो, हास्यरत्यरतिशोकयुगलयोर्मध्येऽन्यतरयुगलम्, भयम्, जुगुप्सा चेत्यतो नोकषायरूपतया यत्परिणतं द्रव्यं तत्पञ्चभिर्भागैः परिणमति । आयुष्कस्य नारकायुष्काद्याश्चतस्र उत्तरप्रकृतय एतासु च मध्ये एकस्मिन् काले एकैव बध्यते, अत आयुष्कभागलब्धं द्रव्यं बध्यमानाया एकस्या एव प्रकृतेर्भवति । नाम्नस्तु सप्तषष्ठिरुत्तरप्रकृतयो बन्धेऽधिक्रियन्ते । तत्र चैकस्मिन् समये त्रयोविंशत्यादिकाः पूर्वोक्तस्वरूपाः प्रकृतयो बध्यन्ते । अतो यावत्य एकस्मिन् काले बध्यमानाः प्रकृतयो भवन्ति, तावद्भिर्भागैर्नामभागलब्धं द्रव्यं परिणमति । वर्णगन्धरसस्पर्शानां च भागे यदागच्छति, तत्पुनरपि विंशत्या भागैः परिणमति । ते हि विंशतिभेदा अपि केवलज्ञानावरणादिवद् ध्रुवबन्धित्वात् सदैव बध्यन्त इति । गोत्रस्योच्चैर्नीचैर्गोत्रलक्षणे द्वे एवोत्तरप्रकृती । अनयोश्चैकस्मिन् काले एकैव बध्यते, अतो गोत्रभागलब्धं द्रव्यं बध्यमानाया एकस्या एव प्रकृतेः सर्वं भवति । अन्तरायस्य तु दानान्तरायाद्याः पञ्चोत्तरप्रकृतयः सदा बध्यन्ते इत्यन्तरायभागलब्धं द्रव्यं पञ्चभिर्भागैः सम्पद्यन्त इति । इह च २७५

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376