________________
गा.-९०
बन्धशतकप्रकरणम् |
बध्यमानप्रकृतेः सर्वं भवति । मोहनीयस्य मिथ्यात्वं द्वादश कषायाश्चाद्याः सर्वघातिनश्चत्वारः सञ्चलना नव नोकषायाश्च | देशघातिन इत्येताः षड्विंशतिरुत्तरप्रकृतयो बध्यन्ते । तत्र मोहनीयभागे यद् द्रव्यमागच्छति तन्मध्येऽपि सर्वघातिरसयुक्तं द्रव्यं । शेषस्यानन्तभाग एव लभ्यते । तन्मध्यादर्शनमोहलक्षणस्य मिथ्यात्वस्यैको भागो भवति, द्वितीयस्तु चारित्रमोहस्य, स पुनराद्यकषायद्वादशकस्यैव द्वादशभिः भागैः परिणमति । शेषं तु देशघातिद्रव्यं द्विधा परिणमति, कषायरूपतया, नोकषायरूपतया च । कषायरूपतया यत्परिणतं तत्पुनरपि सञ्चलनचतुष्टयभेदाच्चतुर्द्धा परिणमति । नोकषायस्त्वेकस्मिन् काले पञ्चैव बध्यन्ते । तद्यथा-वेदत्रयमध्यादेको वेदो, हास्यरत्यरतिशोकयुगलयोर्मध्येऽन्यतरयुगलम्, भयम्, जुगुप्सा चेत्यतो नोकषायरूपतया यत्परिणतं द्रव्यं तत्पञ्चभिर्भागैः परिणमति । आयुष्कस्य नारकायुष्काद्याश्चतस्र उत्तरप्रकृतय एतासु च मध्ये एकस्मिन् काले एकैव बध्यते, अत आयुष्कभागलब्धं द्रव्यं बध्यमानाया एकस्या एव प्रकृतेर्भवति । नाम्नस्तु सप्तषष्ठिरुत्तरप्रकृतयो बन्धेऽधिक्रियन्ते । तत्र चैकस्मिन् समये त्रयोविंशत्यादिकाः पूर्वोक्तस्वरूपाः प्रकृतयो बध्यन्ते । अतो यावत्य एकस्मिन् काले बध्यमानाः प्रकृतयो भवन्ति, तावद्भिर्भागैर्नामभागलब्धं द्रव्यं परिणमति । वर्णगन्धरसस्पर्शानां च भागे यदागच्छति, तत्पुनरपि विंशत्या भागैः परिणमति । ते हि विंशतिभेदा अपि केवलज्ञानावरणादिवद् ध्रुवबन्धित्वात् सदैव बध्यन्त इति । गोत्रस्योच्चैर्नीचैर्गोत्रलक्षणे द्वे एवोत्तरप्रकृती । अनयोश्चैकस्मिन् काले एकैव बध्यते, अतो गोत्रभागलब्धं द्रव्यं बध्यमानाया एकस्या एव प्रकृतेः सर्वं भवति । अन्तरायस्य तु दानान्तरायाद्याः पञ्चोत्तरप्रकृतयः सदा बध्यन्ते इत्यन्तरायभागलब्धं द्रव्यं पञ्चभिर्भागैः सम्पद्यन्त इति । इह च
२७५