SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् | विशेषाधिक एव तद्भाग उक्तो दर्शनमोहद्रव्यं तु चारित्रमोहद्रव्यस्यानन्तभाग एव वर्त्तत इति न किञ्चित्तेन वर्द्धत इति । युक्तिमात्रं चैतद्, निश्चयतस्तु सर्वज्ञवचनप्रामाण्यादेवातीन्द्रियार्थप्रतिपत्तिः । भवत्वेवं तथाऽप्येकस्मिन् समये गृहीतद्रव्यस्य कथमष्टधा परिणामः ? कथं चैवं भागादिकल्पना ? इति चेत् ? उच्यते& अचिन्त्यत्वाजीवशक्तेर्विचित्रित्वाच्च पुद्गलपरिणामस्य, जीवव्यतिरिक्तानामपि ह्यन्द्रधनुरादिपुद्गलानां विचित्रा परिणतिर्दृश्यते, किमुत जीवपरिगृहीतानामित्यलं विस्तरेणेति । तदेवं सूत्रकृता मूलप्रकृतीनां भागप्ररूपणा कृता । उत्तरप्रकृतीनां तु |ग्रन्थविस्तरभयादिकात् कुतश्चित्कारणात्तेनासौ न कृतेति । सोपयोगत्वाद्विनेयानुग्रहार्थं सङ्क्षेपतो वयमेव तां ब्रूमः । तत्र ज्ञानावरणस्य पञ्च तावदुत्तरप्रकृतयः, केवलज्ञानावरणलक्षणा एका सर्वघातिनी, शेषास्तु मतिज्ञानावरणाद्याश्चतस्रो देशघातिन्यः । तत्र ज्ञानावरणभागे यद् द्रव्यमागच्छति, तन्मध्ये सर्वघातिनां तीव्ररसेन युक्तं यद् द्रव्यं तदल्पं शेषद्रव्यस्यानन्तभागवत्यैव तच्च केवलज्ञानावरणभागतयैव परिणमति । शेषं तु देशघातिद्रव्यं चतुभिर्भागैर्भूत्वा शेषप्रकृतिचतुष्टयरूपतया परिणमति । दर्शनावरणस्य तु केवलदर्शनावरणं निद्रापञ्चकं चेति षट् सर्वघातिन्यश्चक्षुर्दर्शनावरणाद्यास्तु शेषास्तिस्रो देशघातिन्य इति सर्वा अपि नवोत्तरप्रकृतयः । तत्र दर्शनावरणभागे यदागच्छति द्रव्यं तन्मध्येऽपि सर्वघातिरसयुक्तं शेषस्यानन्तभागवर्त्येव, तच्च षड्भिर्भागैः सम्भूय सर्वघातिषट्प्रकृतिरूपतया परिणमति, शेषं तु देशघातिरसयुक्तं शेषदेशघातिप्रकृतित्रयरूपतया परिणमति । | वेदनीयस्य सातासातरूपे द्वे उत्तरप्रकृती । अत्र चैकस्मिन् कालेऽनयोरेकैव बध्यते । ततो वेदनीयभागलब्धं द्रव्यमेकस्या एव गा. ९० ९१ २७४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy